SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र पुनरनुभूतार्थः। यत्र पुनरुत्तरवाक्यगतत्वेन यच्छब्दः प्रयुज्यते; तत्रार्थसामर्थ्याधिगतस्य तच्छब्दस्योपादानं नापेक्षते । यथा " साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताऽधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ ३८० ॥" . पूर्ववाक्योपात्तस्तु यच्छन्दस्तच्छन्दोपादानं विना साकासः । यथाऽत्रैव श्लोके पूर्वार्द्धपादद्वयव्यत्यासे । क्वचिदनुपात्तमपि सामर्थ्याद् द्वयमपि गम्यते । यथा"ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ।।" ... अत्र यः कोऽप्युत्पत्स्यते तमेव प्रति ममैष यत्न इत्युभयोरप्यर्थाद् गम्यत्वम् । एवं च स्थिते ' संरम्भः करिकीट-' इति लोके तच्छब्दोपादानं विना यच्छब्दस्य साकासत्वम् । न चासाविति पदं तच्छब्दार्थमभिधत्ते । यतः" असौ मरुच्चुम्बितचारुकेसरः प्रसनताराधिपमण्डलाग्रणी। वियुक्तरामाऽऽतुरदृष्टिवीक्षितो वसन्तकालो हेनुमानिवागतः ॥३८२॥" इत्यत्रापि तच्छब्दार्थप्रतीतिः स्यात्, न चास्ति । यद्यदःशब्दोऽपि तच्छब्दार्थप्रतीतिं कुर्यात् तदा" यस्य प्रकोपशिखिना परिदीपितोऽभूदुत्फुल्लकिंशुकतरुपतिमी मनोभूः । - योऽसौ जगत्रयलय-स्थिति-सर्गहेतुः पायात् स वः शशिकलाकलितावतंसः।" ___इत्यादिषु तच्छब्दस्य पौनरुक्त्यं भवेत् । १. रभू० । २ व. जयत्ति ।। व. ०मुखीः । ४ व. ०नं नापेक्षते यथा वि० । ५ प. हिमवानिः । ६ व. ०तिगो । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy