SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलकारमहोदधौ " त्वक् तारवी निवसनं मृगचर्म शय्या कुञ्जो गृहं विपुलपत्रपुटा घटान । मूलं दलं च कुसुमं च फलं च मोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥३७॥" " संरम्भः करिकीटमेघसकलोद्देशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेबाकलेशः किल । इत्याशाद्विरदक्षयाम्बुदघटावन्धेऽप्यसंरब्धवान् - योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ? ॥ ३७६ ॥" इत्यत्र तु न संरब्धवानिति निषेधो विधेयः, स च समासेन स्थगित एव । योऽसाविति पदद्वयं चास्मिन्ननुवाद्यविधेयार्थतया विवक्षितमनुवाद्येमात्रप्रतीति छन् । यच्छन्दप्रत्यासच्याऽदःशब्दस्य निगीर्णत्वात् । तथाहि- यत्-तदोरेकतरनिर्देशेनोपक्रमस्तत्र तदितरेणोपसंहारो न्याय्यस्तयोः परस्परापेक्षया नित्यसम्बन्धशालित्वात् । यदाहुः-'यत्तदोर्नित्यमभिसम्बन्धः' इति । स चायमनयोरुपक्रमो द्विविधः शाब्द आर्थश्चेति । तत्र द्वयोरुपादाने सति शाब्दो यथा " यदुवाच न तन्मिथ्या यद् ददौ न जहार तत् । सोऽभूद् भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन् ॥ ३७७ ॥" एकतरोपादाने स्वार्थस्तदितरस्यार्थसामर्थेनाक्षिप्यमाणत्वात् । यत्र तु प्रक्रान्तप्रसिद्धानुभूतार्थविषयतया केवलस्यैव तच्छब्दस्योपादानं तत्र यच्छन्द प्रति सापेक्षत्वाभावात् न शाब्दो नाप्यार्थः । यथा " कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥ ३७८ ॥" अत्र प्रक्रमे तच्छब्दः। 'द्वयं गतं सम्प्रति ' इत्यादि । अत्र तु प्रसिद्धार्थः । " उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनन न वीक्षिताऽसि ।।" १ व. ०कलाशेकुल । २ प. ०द्यप्र० । ३ व. ०तिविकृत् । ४ व. ०श्यादेः श० । ५ व. प्रक्रीत० । ६ व. यथा उत्क० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy