SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ अत्र जन्तुपदमदातर्यर्थे विवक्षितं तस्य च नाभिधायकम् । वाक्यं यथा"प्रानभ्राड् विष्णुधामाप्य विषमाश्वः करोत्ययम् । निद्रां सहस्रपर्णानां पलायनपरायणाम् ।। ३६० ॥" अत्र प्राभ्र-विष्णुधाम-विषमाश्व-निद्रा-पर्णशब्दाः प्रकृष्टजलद-गगनसप्ताश्व-सङ्कोच-पत्राणामवाचकाः । अथाश्लीलं तच्च जुगुप्साऽमङ्गल-ब्रीडाकारित्वात् त्रिधा भवति । तत्र जुगुप्साकृत् पदं यथा" लीलातामरसाहतोऽन्यवनितानि शङ्कदष्टाधरः कश्चित् केसरक्षितेक्षण इव व्यामीन्य नेत्रे स्थितः। . मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा' भ्रान्त्या धूर्ततयाऽथ वा नतिमते तेनानिशं चुम्बिता ॥ ३६१ ॥" अत्र वायुपदमधोवातं स्म(स्मा)रयति । वाक्यं यथा" तेऽज्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात् प्रवर्तनम् ॥ ३६२ ॥" अत्र वान्तोत्सर्ग-प्रवर्तनशब्दा जुगुप्साकारिणः । अमङ्गलकत् पदं यथा"मृदुपवनविभिन्नो मत्प्रियाया विनाशा घनरुचिरकलापो निःसपत्नोऽस्य जातः। रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमंसनाथे कं हरेदेष वीं ? ॥" . अत्र विनाशपदम् । . १ प. ०धृते । २ व. वातं । ३ व. नोऽस्य । ४ म. ममना । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy