SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । वाक्यं यथा"कुविन्दस्त्वं तावत् पटयसि गुणग्रामममितो यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । ज(श)रज्ज्योत्स्नागौर ! स्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिभ्रमति विगताच्छादनमिह ॥ ३५६ ॥" अत्र कुं पृथ्वी विन्दति प्राप्नोतीति कुविन्दो राजाऽभिधानकोशोक्तत्वात् तन्तुवायश्च । पटयसीति पटुं पटं च करोषि गुणानां शौर्यादीनां तन्तूनां च प्रामम् । वनस्थास्तपस्विनः पुलिन्दादयश्च । विगताच्छादनं गततिरस्कारं वस्त्ररहितं चेति । तन्तुवायाधर्थाः स्तूयमानस्य तिरस्कारजनकत्वादनुचिताः । अथाप्रयुक्तं शास्त्रप्रतीतमपि कविभिर्यम प्रयुज्यते तत् पदं यथा" यथाऽयं दारुणाचार: सर्वदैव विभाव्यते । तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ।। ३५७ ॥" अत्र दैवतशब्दः पुनपुंसकलिङ्गोऽपि कविभिः पुल्लिङ्गे न प्रयुक्तः। वाक्यं यथा" स रातु वो दुश्च्यवनो भावुकानो परम्पराम् । अनेलमूकताऽऽद्यैश्च धतु दोषैरसम्मतान् ।। ३५८ ॥" . अत्र रातु ददातु, दुश्च्यवनः शक्रः, भावुकानां मङ्गलानाम, अनेलमको मूकबधिर इत्येते शब्दाः प्रायः केनापि न प्रयुज्यन्ते । अथावाचकं विवक्षितमर्थ यन्न वक्ति तत् पदं यथा" अवन्ध्यकोपस्य निहन्तुरापा भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातु(त)हार्देन न विद्विषाऽऽदरः ॥३५९॥" १ अ. मयति । २ व. प. प्नोति । ३ अ. नं च ग० । ४ भ. प. न यु० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy