SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ अलङ्कारमहोदधौ अथ दुःश्रवं श्रुतिकटु तत्पदं यथा" अनङ्गमङ्गलगृहापाङ्ग भङ्गितरङ्गिते( तैः )। आलिङ्गितः स तन्वङ्गया कार्ताक्षं लभते तदा ।। ३५१॥" अत्र कार्यमिति दुःश्रवम् । वाक्यं यथा" सोऽध्यैष्ट वेदांत्रिदशीनयष्ट पितृनताप्र्सीत् समर्मस्त बन्धून् । व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरीश्च ।। ३५२ ॥" अत्राध्यैष्टादीनि क्रियापदानि दुःश्रवाणि । अथाप्रतीतं यत् केवले शास्त्रे प्रसिद्धम् । तत्पदं यथा" सम्यग्ज्ञान महोज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन भवेत् कर्म बन्धकम् ॥ ३५३ ॥" अत्राशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रयुक्तः । वाक्यं यथा" किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः। गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥ ३५४ ॥" अत्र रूपस्कन्ध-नान्तरीयकशब्दौ शास्त्रमात्रप्रसिद्धत्वादप्रतीतौ । अथायोग्यार्थमयोग्योऽनुचितोऽर्थो यस्य तत्पदं यथा" तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिमिरिभ्यते च या। प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ।।३५५॥" अत्र पशुपदं कातरतामभिव्यनक्तीत्ययोग्यार्थम् । १ अ. भग०, व. सन्त० । २ व. प. कदा । ३ व. कांतार्थ्य | ४ व. नयेषु । ५ व. ०हज्ज्यो० ।६ प. बंधनं । ७ व. यथा । ८ व. ० रेष्य० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy