SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अथान्यदोषाणां सामान्येन लक्षणमाहशेषाः पुनरमी दोषाः स्वनामार्थंकलक्षणाः । शेषा लक्षितदोषद्वयादतिरिक्ता ये पुनरमी ग्राम्यादयो दोषास्ते सर्वेऽपि स्वनाम्नः स्वसंज्ञाया यः कश्चिदर्थः स एवैक लक्षणं येषाम् । तत्र ग्राम्यं यत् केवले लोके स्थितम् । तच्च पदं यथा " राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥ ३४७ ॥" अत्र कटिरिति ग्राम्यम् । वाक्यं यथा" ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा ॥ ३४८॥" अत्र गल्लादयः शब्दा ग्राम्याः । अथ सन्दिग्धं यस्मिन्नर्थनिश्चयो नास्ति तत्पदं यथा " नीललोहितमूर्तिर्यो दहत्यन्ते जगन्त्यपि । स एष हि महादेवस्त्रिषु लोकेषु पूज्यते ॥ ३४९ ॥" अत्र वहिरकः शिवो वेति न निश्चीयते । वाक्यं यथा" सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥ ३५० ॥" अत्र किं सुरादिशब्दा देव-सेना-और-विभूत्यर्थाः १, किं मदिराद्यर्थी इति सन्देहः। १ अ. •षा ना० । २ प. षां य० । ३ व. यथा । ४ व. ये दहन्यते जगत्यपि । ५ व..निलो० । ६ .प. सुर० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy