SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ अलङ्कारमहोदधौ कल्पनया स्वप्रक्लृप्तसङ्केतेन प्रणीतो निर्मितोऽर्थो यस्य तोयामिति विदुः जानन्ति । तच्च पदं यथा " तवाननमिदं पूर्ण हरिद्राजीवितेश्वरम् । किङ्करीकुरुते तन्धि ! किमन्यद् वर्णयामि ते ? ॥ ३४४ ॥" अत्र हरिद्रा रजनी तया च निशोपलक्ष्यते । तस्या जीवितेश्वरश्चन्द्रः । वाक्यं यथा" मुखांशवन्तमास्थाय विमुक्तपशुपतिना। पकत्यनकगनामधृत्तुका जित उलूकजित् ।। ३४५ ॥" अत्र पङ्क्तिरित्यनेन दशसङ्ख्या अनेकगा द्वन्द्वपराश्चक्रास्तेषां नाम यस्य तच्चक्रं रथाङ्गं तद् धरति यः स रथः पतयो दश रथा यस्येति दशरथः । तत्तुक् लक्ष्मणः। तेन जित् उलूकजित् कौशिकजिदिन्द्रजिदित्यर्थः । किं कृत्वा ? आस्थाय। के मुखांशवन्तं हनूमन्तम् । किम्भूतेन ? विमुक्तपशुपतिना मुक्तेषुपद्धतिनास्त्र पशुशन्देन गोशब्दो लक्ष्यते । तेनेषवः । तदिदं स्वसङ्केतेन कल्पितार्थ नेयार्थमुच्यते । ___ अथ निहतार्थलक्षणमाहनिहतार्थं पुनद्वयर्थमप्रसिद्धार्थगुम्फितम् ॥ ९॥ द्वयर्थमुभयार्थ सद् यदप्रसिद्धेऽर्थे गुम्फितं निबद्धं तनिहतार्थ पदम् । यथा" यावंकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ ३४६ ॥" अत्र शोणितशब्दस्यारुणीकृतरूपोऽर्थो रुधिरलक्षणेनार्थेन व्यवधीयते । एवं वाक्यमपि ज्ञेयम् ॥ ९॥" १ अ. निहि० । २ व. ०वर० । ३ व. अ. रिरभ्य चु० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy