________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः ।
१४१
अत्र कृतमित्यधिकम्, तदेतत् कृतं प्रत्युत प्रक्रमभङ्गमावहति । यथा च, यदपि च न कुरङ्गलोचनानामिति पाठे निराकाचैव प्रतिपत्तिः ।
यथा वा-
" स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अनुमानपरिग्रहया स्थितं रुचिरया चिरयाऽपि निश्रिया || ३४२ ॥ " अत्र समासोक्तिवशादेव निदाघदिन श्रियः प्रतिनायिकात्वे प्रतीते देवितयेवेत्यधिकम् ।
"
जगाद मधुरां वाचं विशदाक्षरशालिनीम् । " इत्यादौ तु जगादेत्यादि क्रिययैव वाक्शब्दार्थेऽभिहितेऽपि विशेषणदानार्थं वाक्शब्दप्रयोग इत्यस्य नाधिक्यमित्यनुचितं क्रियाविशेषणत्वेनैव वाञ्छितार्थसिद्धेः । यदि वा विशेषणदानार्थं विशेष्यं प्रयोक्तव्यमिति मतं तथापि 'चरणत्रपरित्राणरहिताभ्यामपि द्रुतं पादाभ्यां दूरमध्वानं व्रजन्नपि न खिद्यते । ' इत्युदाहार्यम् ।
अथ पैद-वाक्ययोः प्रत्येकं दोषानभिधायोभयदोषानाह - अथ द्वयमिदं दुष्टं ग्राम्यं सन्दिग्ध - दुःश्रवे ॥ ६ ॥
अप्रतीतमयोग्यार्थमप्रयुक्तमवाचकम् । जुगुप्साऽमङ्गल-व्रीडाकृदश्लीलं भवेत् त्रिधा ॥ ७ ॥ नेयार्थं निहतार्थं च विरुद्धमतिकृत् पुनः । अविमृष्टविधेयांशं संक्लिष्टं स्यात् समासगम् ॥ ८ ॥ तेषु नेयार्थ लक्षणमाह
यत् कल्पनाप्रणीतार्थं नेयार्थमिति तद् विदुः ।
१ अ. यथा । २ ५. व. यदि तयेव । ३ व. ० चितवि० । ४ अ. प्रत्येकं प० । ५ अ. निहि० । ६ अ. क्लिष्टं च । ७ प च गमं ।
For Private And Personal Use Only