SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४० अलङ्कारमहोदधौ 46 'कस्कः कुत्र न घुघुरायितधुरीघोरो घुरेच्छ्रकरः कस्कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ? | के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहस्नेहविलासबद्धवसतिः पश्चाननो वर्त्तते ॥ ३३७ ॥ +3 अत्र यथोत्तरमनुप्रासः प्राप्तप्रौढिनिबन्धनीयः पतत्प्रौढिस्तु निबद्धः । अथाप्रोक्तवाच्यमप्रोक्तमनभिहितं वाच्यमवश्यवक्तव्यं यत्र । यथा अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैर्मम हृतस्य तथाप्यनास्था । कोsप्येष बीर शिशुका कृतिरप्रमेयमाहात्म्य सारसमुदाय मयः पदार्थः । ३३८ ॥ " अत्र मम हृतस्येत्यत्रापहृतोऽस्मीति विधिर्वाच्यः । तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः । अथ त्यक्तप्रसिद्धिकं त्यक्ता प्रसिद्धिर्येन । यथा— “ रणन्ति पक्षिणः क्ष्वेडं च । 27 इदं बृंहितमश्वानां ककुद्मानेष हेषते ।। ३३२ ॥ " www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति स्वनित मणितादि सुरते मेघादिषु गर्जितप्रमुखमित्यादि प्रसिद्ध्यतिक्रान्तत्वात् त्यक्तप्रसिद्धिकम् । 44 अथ पुनरुक्त पदन्यासं पुनरुक्तः पदन्यासो यत्र । यथा " अधिकरतलतल्पं कल्पितस्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥” अत्र लीलेति पुनरुक्तम् । अथातिरिक्तपदमतिरिक्तमधिकं पदं यत्र । यथा— इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ ३४१ ॥ " १ व. क्ष्वेडां । २ व. ०षु कु० । ३ व स्तनि० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy