________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
अलङ्कारमहोदधौ " हा नृप ! हा बुध ! हा कविवन्धो ! विप्रसहस्रसमाश्रय देव !।
मुग्धविदग्धसभान्तररत्न ! क्वासि गतः क्व वयं च तवैते ॥ ३२८ ॥" इदं हास्यरसानुरूपं वृत्तं करुणाऽननुगुणम् ।
अथ सन्धिविश्लेष-कष्टत्वाश्लीलताऽऽस्पदं सन्धेः स्वरसंहितारूपस्य विश्लेषः स्वराणां स्वावस्थायामेव स्थापनं स च द्विधा लाक्षणिको यादृच्छिकश्च । तत्र लाक्षणिकोऽसद्विहितो दोषः । यादृच्छिकस्तु सकृदपि दोष एव 'संहिता ोकपदवत् पादेष्वर्द्धान्तवर्ज कार्या' इति काव्यसमयः । तथा सन्धे
य॑ञ्जनानां मिथः सम्पर्करूपस्य कष्टत्वमश्रव्यत्वम् । तथा सन्धेर्व्यञ्जनसम्पर्करूपस्य पदप्रत्यासत्तिरूपस्य चौश्लीलता ब्रीडादिरूपा तासामास्पदम् ।
तत्र सन्धिविश्लेषो यथा" कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः।"
यथा वा" तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः ।
निजवंश उदात्तकान्तकान्तिर्वत मुक्तामणिवच्चकास्त्यनयः ॥ ३३०॥" अत्रोभयत्रापि लाक्षणिको विश्लेषः ।
यथा वा" मेघानिलेन अमुना एतस्मिन्नद्रिकानने ।
मञ्जयुद्गमगर्भाऽसौ तन्युिर्वी विधूयते ॥ ३३१ ॥" अत्र पूर्वार्द्ध यादृच्छिकः सन्धिविश्लेषा, उत्तरार्द्ध तु सन्धिकष्टत्वम् ।
सन्ध्यश्लीलता यथा"वेगादुड्डीय गगने चलण्डामरचेष्टितः। अयमुत्तपते पत्री ततोऽत्रैव रुचिकरु ॥ ३३२ ॥"
. अ. धिर्व्यः । १ अ. व, वा० । ३ अ. लंडा० ।
For Private And Personal Use Only