SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र चतुर्थवर्णान्ते यतिर्न कृतेति यतिभ्रष्टम् । यथा वा " अमृतममृतं कः सन्देहो मधून्यपि नान्यथा मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ ३२५॥" अत्र यदिहान्यत् स्वादु स्यादित्यश्रव्यम् । यथा च " विकसितसहकारतारहारिपरिमलपुञ्जितगुञ्जितद्विरेफः । नवकिसलयचारुचामरश्रीहरति मुनेरपि मानसं वसन्तः ॥ ३२६ ॥" अत्र हारीत्यत्र पादान्ते गुरुन कृतः । हारिप्रमुदितसौरभेति तु पाठो युक्ता । यथा वा " अन्यास्ता गुणरत्नरोहणभुवः कन्यां मृदन्यैव सा सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ ३२७ ।।" अत्र वस्त्राण्यपीति पाठे लघोरपि गुरुवद्भावः पाश्चात्यस्य महाप्राणत्वात् । यथा च १ अ. व. किश० । २ अ. पदा० । ३ प. ति पा. । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy