SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ ___ अथार्धान्तरस्थैकपदमर्धान्तरे द्वितीयस्मिन्नः स्थितमेकं पूर्वार्द्धसम्बद्ध पदं यत्र । यथा " यावदर्थपैदां वाचमेवमादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ ३२१॥" अत्र विररामेति पदं पूर्वार्द्ध निवेशयितुमुचितम् , ' नाट्टै किश्चिदसमाप्तवाक्यम्' इति हि कविसमयः। अथ सङ्कीर्ण यत्र वाक्यान्तरपदानि वाक्यान्तरे प्रविशन्ति । यथा" किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम् । ननु मुश्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ।। ३२२ ॥" अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि ? एनं कण्ठे गृहाण । मनसः कोपं तमोरूपं मुश्चेत्यन्वयः । एकवाक्यतायां तु श्लिष्टमिति तस्मादस्य भेदः। अथ गर्मितं यत्र वाक्यस्य मध्ये समग्रं वाक्यान्तरमनुप्रविशति । यथा. " योग्यो यस्ते पुत्रः सोऽयं दशवदन ! लक्ष्मणेन मया । रक्षनं यदि शक्तिर्मृत्युवशं नीयते विवशः ॥ ३२३ ॥" अत्र रक्षनं यदि शक्तिरिति वाक्यान्तरं सोऽयं दशवदनेत्यादिवाक्ये प्रविष्टम् । अथ दुर्वृत्तं दुष्टं लक्षणच्युतं यतिभ्रष्टं च लक्षणानुसरणेऽप्यश्रव्यं चाप्राप्तगुरुभावान्तलघु च रसाननुगुणं च वृत्तं यत्र । यथा " अयि ! पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।" अत्र वैतालीययुग्मपदे लघ्वक्षराणां षण्णां नैरन्तयं निषिद्धमिति लक्षणच्युतम् । यथा च एतासां राजति सुमनसां दाम कण्ठावलम्बि' १ प. ०द्धं य० । २ ५. ० १० । ३ अ. ०ति क० । ४ प. ०वाच्य० । ५ व. विशेत् । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy