SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ अलङ्कारमहोदधौ " माहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षितिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥ ३१३ ॥" अत्र कारकोक्तत्वपरावृत्या ' विश्रब्धाः कलयन्तु सूकरवराः' इत्यदुष्टम् । यथा वा " सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसं धृतविकासिविसप्रसूनाः। सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम् ॥" अत्र तिप्रत्ययाभावेन । ' विकचमस्य दधुः प्रसूनम् ' इति तु युक्तम् । यथा वा" यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाकमुपैति सिद्धिः ॥ ३१५ ॥" अत्र तुम्प्रत्ययत्यागेन । ' सुखमीहितुं च ' इति तु युक्तम् । " बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥ ३१६॥" अत्र यथाऽऽरब्धरूपकानिर्वाहेण । ' मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । " तरङ्गय दृशोऽङ्गणे( ने ! ) पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका मुदश्चय मनाग् मुखं भवतु च द्विचन्द्रं नमः ॥ ३१७ ॥" अत्रोपमेयानामतिशयं वक्तुमुपमानानां निन्दा प्रारब्धा, सा च चतुर्थपादे १ अ. ०मान्य० । २ व. ०क्षतिः । ३ प. शूक० । ४ अ. अपाङ्ग । ५ प. ०लं । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy