SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । अत्र श्रीवीरचूडामणरित्यत्र वाक्यं समाप्य तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं न चमत्करोति । अर्थ भग्नप्रक्रम भग्ना प्रक्रमः प्रक्रान्तत्वं यत्र । यथा" उदन्वच्छिन्ना भूः स च निधिरपां योजनशते सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ३१०॥" अत्र पर्यायान्यत्वेन क्रमभङ्गः 'मिता भूः पत्याऽपां स च पतिरपां योजनशतम्' इति तु युक्तम् । ननु 'नैकं पदं द्विः प्रयोज्यं प्रायेण' इत्यन्यत्र, 'पुनरुक्तपदन्यासं वाक्यं दुष्टम् ' इति चात्रैवाभिहितत्वात् कथमेकस्य पदस्य द्विः प्रयोगः१। युक्तमुक्तम् , किं पुनरुद्देश्य-प्रतिनिर्देश्यव्यतिरिक्त विषये द्विर्न प्रयोक्तव्यमेकं पदम् । तद्वति तु विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोग विना दोषः । तथाहि " उदेति सविता ताम्रस्ताम्र एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ।। ३११॥" अत्र रक्त एवास्तमेतीति यदि क्रियेत तत्पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीति स्थगयति । यथा वा "धैर्येण विश्वास्यतया महर्षेस्तीत्रादरातिप्रभवाच्च मन्यो। वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमबाप शोकः ।।३१२।।" अत्र सुपव्यत्ययेन । ' तीव्रण विद्वेषिभुवाऽऽगसा च ' इति तु युक्तम् । यथा च १. अत्र । २ व. ०तो । ३ अ. व. सुते । ४ व. वेति । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy