SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोषव्यावर्णनो नाम पञ्चमस्तरङ्गः । तत्र रसायनुचिताक्षरं रसायनुगुणत्वमक्षराणां वक्ष्यते, तद्विपरीताक्षरं वाक्यं दुष्टम् । यथा“ अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ ३०३ ॥" अत्र टवर्गस्य शृङ्गाराननुगुणत्वम् । रौद्रे यथा" देशः सोऽयमरातिशोणितजलैयस्मिन् इदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरुण्यस्त्राणि भास्वन्ति नो यद् रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ ३०४॥" रौद्रे हि विकटवर्णत्वं दीर्घसमासत्वं च कथितं तदत्र नास्ति । अथ लुप्तध्वस्तविसर्गान्तं लुप्तः सत्वात् त्याजितो ध्वस्तो वा उच्चारादिना रूपान्तरं प्रापितो विसर्गों येषां ते तथा तादृशा अन्ताः पदान्ता यंत्र । यथा " यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभाविताः। वीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ॥ ३०५ ॥" अथेष्टसम्बन्धवश्चितमिष्टोऽभिमतो यः सम्बन्धः परस्परं पदार्थानामन्वयस्तेन वञ्चितं रहितम् । यथा" येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्ममि - लीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः। येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां तैः किं त्वत्परितोषकारि विहितं किश्चित् प्रवादोचितम् १ ॥३०६॥" १ प. ०कुंडो०, व. अकंठो० । २ अ. •तघ० । ३ व. अत्र । ४ प. चन्द्र० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy