SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ अत्र बाधतिरात्मनेपदी, न तु परस्मैपदी । अथासमर्थ यत्रार्थे प्रयुक्तं तं वक्तुं नास्य शक्तिः । यथा" तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः । सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम् ॥ ३०१॥" अत्र हन्तीति गत्यर्थ वक्तुमशक्तम् । अथानर्थकं पादपूरणायैव यत् प्रयुज्यते । यथा"बिभर्ति यश्च देहाधै प्रियाममुं(मिन्दं) हि मूर्धनि । स वै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ ३०२॥" अत्र च हि वै खलु तु इत्येतानि पादपूरणार्थान्येव । अथ वाक्यदोषानाहवाक्यमप्युदितं तद्वद् रसायनुचिताक्षरम् ॥ २॥ लुप्त-ध्वस्त-विसर्गान्तमिष्टसम्बन्धवञ्चितम् । समाप्तपुनरारब्धं भग्नप्रक्रममक्रमम् ॥ ३॥ न्यूनमर्द्धान्तरस्थैकपदं सङ्कीर्ण-गर्भिते । दुर्वृत्तं सन्धिविश्लेष-कष्टत्वाश्लीलतास्पदम् ॥ ४॥ अनिष्टान्यार्थमस्थानसमास-पददुःस्थितम् । पतत्प्रकर्षमप्रोक्तवाच्यं त्यक्तप्रसिद्धिकम् ॥ ५॥ पुनरुक्तपदन्यासमतिरिक्तपदं तथा । वाक्यमपि तद्वद् दुष्टमुदितं कथितम् । किंविशिष्टं ? रसायनुचिताक्षरादि । १ . ० इ० । १ . ताप० । ३ अ. 6ष्टं क० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy