________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ पञ्चमस्तरङ्गः ।
अथ निर्दोषत्वादिना शब्दार्थवैचित्र्यमिति प्रथमं दोषानभिषित्सुः सामान्येन दोषलक्षणमाह
वैचित्र्यव्याहतिर्दोषः सा च भूम्ना रसक्षतेः । तद् ध्रुवं रस एवैष भक्त्या शब्दार्थयोः पुनः॥१॥ वैचित्र्यस्य सहृदयानन्दिनः सौन्दर्यविशेषस्य या व्याहतिर्विलोपः सैव दोषः । सा च कथं भवेदित्याह-सा चेत्यादि । सा च वैचित्र्यव्याहतिर्भूम्ना बाहुल्येन रसक्षते रसहानेः सकाशाजायते । ततः किं सिद्धमित्याह-तध्रुवमित्यादि। तत् तस्मात् कारणाद् ध्रुवं निश्चितमेष दोषः केवलं रस एव नान्यत्र । यतोऽन्वय-- व्यतिरेकाभ्यां रसधर्मा एव गुणदोषास्तथाहि-यत्रैव दोषास्तत्रैव गुणा रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि तयोर्भवेयुस्तदा शृङ्गारादिष्विव बीभत्सादिषु कष्टत्वादयो गुणो न भवेयुहास्यादौ वाऽxलीलत्वादयः । शब्दार्थयोस्तत्रापि भूतत्वात् । ततो यस्याङ्गिनः शृङ्गारादेस्ते दोषास्तदभावे न दोषास्तभावे तु दोषा इत्यन्वय-व्यतिरेकाभ्यां गुण-दोषयो रस एवाश्रयस्तदुपकारिणोः शब्दार्थयोः पुनर्भक्त्या उपचारेण न तु मुख्यया वृत्त्येति ॥ १ ॥
अथ पददोषानाहदुष्टं पदमसंस्कारमसमर्थमनर्थकम् । पदं दुष्टं भवति । कथम्भूतमसंस्कारादिकम् । तत्रासंस्कारं व्याकरणसंस्काररहितम् । यथा" भूरिभारभराक्रान्त ! बाधति स्कन्ध एष ते । न तथा बाधते स्कन्धो याँ बाधति बाधते ।। ३००॥"
म. •दि त० । २ . ०णा हा० । ३ प. ०वे दो० । ४ अ. बा० यथा ।
For Private And Personal Use Only