________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
अलकारमहोदधौ दीर्घाक्ष्या गृहदीर्घिकामनु मुहुः सङ्गीतकारम्भिणी
भृङ्गाली कलकाकलीषु च किमप्याचार्यकं पुष्प(य)ति ॥ २९७॥" अत्राचार्यकं पुष्प(व्य)तीत्यसम्बन्धे सम्बन्ध इत्यतिशयोक्याऽनुग्राह्यानुग्राहकस्वेन रसध्वनेः सङ्कः।
यथा च" कर्त्ता घृतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी
कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
कास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ।।२९८॥" अत्र कर्ता घूतच्छलानामित्यादिपदानामस्योपहासादिना व्यङ्गथेन गूढत्वाभावाद् गुणीभूतेन पूर्ववद् वीररसस्य सङ्करः।
__ यथा च“दीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः। २९९ ॥" अत्र मैत्रीशब्देन चेतनविषयाभावाद् बाधितस्वार्थेन नैकव्यसम्बन्धात् संश्लेषं लक्षयता उपकार्योपकारकत्वादि ध्वन्यते । तेन मैत्रीफलभूतकषायपदसभिधेरगूढत्वाद् गुणीभूतेन प्राग्वद् रसध्वनेः सङ्कर । प्रियतम इवेत्युपमाऽलङ्कारेण संसृष्टिः । एवमन्येऽपि भेदाः स्वयमुत्प्रेक्षणीयाः ॥ ४ ॥ व्यङ्ग्यं गुणीभूतमपत्थिमन्वहं यः काव्यवीथीपथिको निषेवते । तस्यापि विश्वे कविसंकथाविधौ महाकवित्वं न पराङ्मुखं कचित् इत्यलङ्कारमहोदधौ गुणीभूतव्यङ्ग्यप्रदर्शनो नाम चतुर्थस्तरङ्गः ॥ ४ ॥ १. व. ०न्धिसं०, ०न्धे ३० । २ प. स्फटिकक० । ३ प. व. ०ण तु ।
४
. .त्यं यः।
For Private And Personal Use Only