SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गुणीभूतव्यङ्ग्य प्रदर्शनो नाम चतुर्थस्तरङ्गः । " जनस्थाने भ्रान्तं कनक मृगतृष्णाऽन्धित धिया वचो वै देहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंका भर्तुर्वदनपरिपाटीपु घटना Acharya Shri Kailassagarsuri Gyanmandir 33 मयाऽऽप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ २९५ ॥ जनस्थाने ग्राम-नगरादावाश्रमविशेषे च कनकस्य मृगतृष्णाsतिलुब्धत्वम्, कनकमृगस्य च तृष्णा लिप्सा । वै इति स्फुटत्वे देहीति, वैदेहीति च। अलमत्यर्थ का भर्तुरम्प भर्तुर्लक्ङ्काभर्तुश्च वदनपरिपाटीपु वचनपङ्क्तिषु घटना सम्पादनम्, वदनपरिपाट्यामिषुघटना च । कुशलं कार्यक्षमं वसु यस्य तस्य भावः, कुश-लवौ सुतौ यस्याः सीतायाः । अत्र शब्दशक्तिमूलानुरणनमूर्तिरुपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः । १-३ ॥ ४ पुनर्ध्वनेः स्वरूपान्तरमाह - अलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैः पृथक् पृथक् । तैश्च युतः प्राग्वद् ध्वनिः स्फूर्जत्यनेकधा ॥ ४॥ ध्वनिरनेकधा विशेषतो बहुधा स्फूर्जति । कीदृशोऽलङ्कारैर्गुणीभूतव्यङ्ग्यभेदैश्च सह पृथक् पृथक् प्रत्येकं प्राग्वत् पूर्ववत् संसृष्टि- सङ्कराभ्यां युतः संयुक्तो न केवलं पृथक् पृथक् सङ्गतैवालङ्कार-गुणीभूतव्यङ्गमेदेर्मिथो मिलितैश्च समं युक्तः । यदाह " स गुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः | सङ्कर- संसृष्टिभ्यां पुनरप्युद्योतते बहुधा ।। २९६ | " १२७ तत्र दिङ्मात्रमुदाह्रियते यथा " नेत्राम्भोरुहविभ्रमेषु पवनप्रेङ्गोलि नीलोत्पलं कादम्बा गतिडम्बरेषु कबरीभङ्गे तरङ्गावलिः । For Private And Personal Use Only १ अ. ०ने न० । २ अ.व. ० ति च । ३ प ० चन० । ४ प. त्रिभिः कुलकम् । ५ प. संयुतैश्च य० । ६ अ. स्फुरति । ७ व संयु० । ८ अ. व. सङ्गे ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy