SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणीभूतव्यङ्ग्यप्रदर्शनो नाम चतुर्थस्तरङ्गः । १२५ परत्वाच्चमत्कारित्वेन कमनीयमिति व्यङ्गयात् तदेव सुन्दरम् । वाच्यसिद्ध्यङ्गत्वेन यथा" भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् । मरणं च जलद जगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥ २८८ ॥" अत्र हालाहलं व्यङ्गयं भुजगरूपणस्य वाच्यस्य सिद्धिकृत् । काकाक्षिप्ततया यथा" मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पिबाम्युरस्तः । सञ्चूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपतिः पणेन ॥" अत्र काकाक्षिप्तं मध्नाम्येवेत्यादि व्यङ्गचं वाच्यस्य निषेधस्यापि स्वातन्त्र्येण स्थितस्य तिरस्कारेत्वाभावात् तत्सहभावेन स्थितम् । यदि वा काळ विना व्यङ्गयमेव न स्यादिति काकुमात्राक्षिप्तत्वाद् गुणीभूतत्वम् , विशिष्टकाकाक्षिप्तत्वे तु ध्वनिरेव । सन्दिग्धप्राधान्यतया यथा* “ महिलासहस्सभरिए तुह हियए मुहय ! सा अमायंती । अणुदिणमणन्नकम्मा अंगं तणुअंपि तणुएइ ॥ २९० ॥" अत्राङ्गं तनुकमपि तनूकरोतीति वाच्यं किं वा तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वों दौर्जन्यं साऽनुनीयतामिति व्यङ्गथं प्रधानमिति सन्दिग्धम् । तुल्यप्राधान्यतया यथा * महिलासहस्रभृते तव हृदये सुभग ! सा अमान्ती । अनुदिनमनन्यकर्माऽङ्ग तनुकमपि तनयति ॥ १ प. गिनां । २ व. ०पस्य सि० । ३ अ. ०क्ष्य न । ४ अ. काक्वा म० । ५ अ. रकत्वा०, प. राभा० । ६ अ. ०अए। ७ प. यमा, प. यगा । ८ व. चा० । भ. तत्वा, प. व. ०तस्वाद् । १० प. नीता० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy