SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org अलङ्कार महोदधौ तत्रागूढत्वेन गुणीभूतत्वं यथा " श्रीपरिचयाजडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि । २८४ ।। " 66 Acharya Shri Kailassagarsuri Gyanmandir अत्रोपदेशेन कलाचार्य कार्यत्वाभावाद् बाधितस्वार्थेन ज्ञापकत्वसादृश्याद् यौवनमदं लक्षयताऽनायासेन शिक्षादानं ध्वन्यते । तच्चोपदिशतीत्युक्तेऽभिषेयवत् झगित्यवगमकत्वादगूढं व्यङ्गयं च गूढं चमत्करोति नागूढम् । यदुक्तम्अनुद्धुष्टः शब्दैरथ च घटनातः स्फुटतरः पदानामर्थात्मा रमयति न तूत्तानितरसः । यथा दृश्यः किञ्चित् पवनचलचीनांशुकतया कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितमुखः ॥ २८५ ॥ ” अस्फुटत्वेन यथा 46 अहयं उज्जैअरूआ तस्स वि उम्मंथराई पिम्माई । सहिआणो अनिणो अलाहि कि पायराएण ? ।। २८६ ।। " अत्र स म पुरुषायितीयार्थयते, निषेद्धुं चाहमशक्ता । तत्सख्यः प्रातः पादमुद्रयाँ तर्कयित्वा मा मां हसिषुरिति व्यङ्गयमस्फुटम् । असुन्दरतया यथा " ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ २८७ ॥ " अत्र वञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यं स्वरूपमात्र प्रकाशनपरत्वेन चमत्कारित्वाभावादसुन्दरम् । मुखच्छायामालिन्यरूपं तु वाच्यं रसविशेषप्रतीति * अहं ऋजुरूपा तस्यापि उन्मन्थराणि प्रेमाणि । सखिकाजनश्च निपुणोऽलं किं पादरागेण ? || १ प. ०ढेन । २ १ ० नत्वं । ३ अ. ०मत्वा०, प ० मत्वादगूढं य० । ४ अ. व्य उज्जूअ० । ५ अ. प. व, माः । ६ अ.व. ० यितया० । ७ अ. व्या मा । ८ अ. तु र० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy