________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
- अलकारमहोवधौ अथ ध्वनौ निर्णीते रसादिध्वनेः कैश्चिद् रसवदाद्यलकारत्वमुक्तं तन्निराकर्तु श्लोकद्वयमाह
शब्दार्थसौन्दर्यतनोः काव्यस्यात्मा ध्वनिर्मतः । तेनालङ्कार्य एवायं नालङ्कारत्वमर्हति ॥ ६४ ॥ स्वस्याङ्गित्वे रसायाः स्युर्न तद् रसवदादयः। यत्रैते तु गुणीभूतास्तत्र तानपि मन्महे ॥ ६५ ॥ काव्यस्य निपुणकविकर्मणो ध्वनिरात्मा जीवितव्यं मतः कथितः । यदुक्तम्-' काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः' इति । कीदृशस्य काव्यस्य ? शब्दार्थसौन्दर्यतनोः शब्दार्थयोर्यत् सौन्दर्य रामणीयकं तदेव तनुः शरीरं यस्येति । यथा शरीरमात्मानं विना न किञ्चिदिव, तथा शब्दार्थसौन्दर्यमयमपि काव्यमकिश्चित्करमेव ध्वनि विना । तेनावसीयते ध्वनिरेवात्मा काव्यस्येति। तेन कारणेनायं ध्वनिरलङ्कार्य एव,न क्वचिदप्यलङ्कारत्वमर्हति, सर्वत्रोप्यात्मनोऽलकार्यत्वात् । तद् ततः पूर्वोक्तकारणात् स्वस्याङ्गित्वे प्राधान्ये सति रसादयो रसवदादयोऽलङ्कारा ये कैश्चिदुक्तास्ते न भवन्ति, रसादीनां ध्वनिरूपत्वात् । तत् किं सर्वत्राप्येतेषां नालङ्कारत्वमित्यपवादमाह- यत्र यस्मिन्नेते रसादयः पुनर्गुणीभूता अपराङ्गत्वेन गौणतां प्राप्तास्तत्र तस्मिन् काव्ये तानपि रसवदाबलङ्कारानपि मन्यामहे । तत्स्वरूपं चालङ्कारप्रस्तावे वक्ष्यते ॥६४-६५ ।।
इत्यर्थवैचित्र्यपवित्रवाचो न कस्य चेतः कवयो हरन्ति ? । उद्यानदेशा मधुमासबद्धसमृद्धयो विश्वमुदे भवन्ति ॥ ६६ ॥
इत्यलङ्कारमहोदधौ ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ॥ ३ ॥
१ अ. रसाय० । २ प. युगली । ३ अ. नाकि० । ४ व. ०ते चात्मा । ५ व. त्रात्म० । ६ अ. ०द्धये । ७ प. इत्य० काव्यं सुगम इ० ।
For Private And Personal Use Only