________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । * " विवरीयरए लच्छी बंभं ददृण नाहिकमलत्थं ।
हरिणो दाहिणनयणं रसाउला झत्ति ढक्केइ ॥ २८२ ॥" इत्यादौ प्रत्यासनप्रत्यासन्नः । अ हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते, तन्निमीलनेन सूर्यास्तमयस्तेन पद्मसङ्कोचस्ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेनानियन्त्रणं निधुवनमित्यभिधोपचाररूपव्यापारद्वयातिरिक्तो व्यञ्जनव्यापारोऽवश्यमेषितव्यस्तत्प्रकाश्यं च व्यङ्ग्यमपि मन्तव्यमेवेति। व्यक्तिविवेककारस्तु व्यङ्गय-व्यञ्जकमावस्य सर्वस्याप्यनुमानान्तर्भावमाह । तथाहि-' वाच्याद्यसम्बद्धं तावत् किश्चिदपि न प्रतीयते । यतः कुतश्चिद् यस्य कस्यचिदर्थस्य प्रतीतिप्रसङ्गात् । सम्बन्धे च नियतधर्मिनिष्ठत्वेन ' त्रिरूपाल्लि. गाल्लिङ्गिनि ज्ञानमनुमानम् ' इत्येवंरूपता पर्यवस्यति । तथा च-' भम धम्मिय' इत्यत्र गृहे श्वनिवृत्या भ्रमणं विहितम् । गोदावरीतीरे सिंहोपलधेरभ्रमणमनुमापयति । तद्यथा- धार्मिकभ्रमणं भयकारणनिवृत्युपलब्धिपूर्वकम्, भीरुभ्रमणत्वात् । यद् यद् भीरुभ्रमणं तत् तद् भयकारणनित्युपलब्धिपूर्वकं दृष्टम् । यथोभयसंमतस्यादिभ्रमणम् , भीरुभ्रमणं चेदं तस्मात् तथा। गोदावरीतीरे च सिंहोपलब्ध्या व्यापकविरुद्धोपलब्धिापकं च भयकारणेत्यादि साध्यम् । यदाहुः-'साध्यं व्यापकमित्याहुाप्यो हेतुरुदाहृतः।' इति । तद्विरुद्धा च भयकारणसद्भावोपलब्धिस्तया धार्मिकाभ्रमणं सिद्धमिति । तदप्ययुक्तमेव, वाच्यस्य पुतीयमानेन तादात्म्यतदुत्पत्यभावात् । तथाहि-गोदा वरीतीरे सिंहसद्भावः । प्रत्यक्षादनुमानाद्वा न निश्चितोऽपि तु वचनात्, ने च वचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धोऽयं हेतुः । शुनो विभ्यदपि धीरत्वेन सिंहान विभेतीति विरुद्धोऽपि । भीरुरपि गुरोःप्रभोर्वा निदेशेन प्रियानुरागेणान्येन वा केनाप्येवम्भूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिकश्च । तत् कथमेवंविधान हेतोः साध्यसिद्धिरित्यायन्यत्राप्यूद्यमिति ॥ ६३ ॥
* विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्यम् ।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥ १ अ. ०परीभर० । २ अ. ०त्र ह० । ३ प. तिरेको । ४ . ०नुभावान्त० । ५ प. धर्मः । ६ व. ०"युक्त० । ७ अ. ध्यप्र०, व. ०माने । ८ व. •पि ०९ . प. न व० । १० प. भेति भी० ।
For Private And Personal Use Only