________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलकारमहोदधौ णैव प्रतीतिसिद्धेरिति सिद्धं शब्दार्थव्यतिरेकिणः प्रतीयमानस्य वस्तुनोऽभि-. धातो व्यापारान्तरगम्यत्वम् ।
" भद्रात्मनो दुरधिरोहतनोविशालवंशोनतेः कृतशिलीमुखसंग्रहस्य ।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥" इत्यादौ त्वनेकार्थानां शब्दानां प्रकरणादिना नियमितेऽभिधाव्यापारे या काचित् कुञ्जरादेरर्थान्तरस्य तेन सार्द्धमुपाँऽऽदेरलङ्कारस्य च प्रतीतिः सा सर्वाऽपि व्यापारान्तरविषयाभिधाया नियमितत्वात् । रसादयस्तु यदि कथमपि वाच्याः स्युस्तद्विभावादिप्रयोग विनाऽपि रसादिशब्दैः शृङ्गारादिशब्दैवी प्रतिपाघेरन् , न च प्रतिपाद्यन्ते । तत्प्रयोगेऽपि रसादीनामप्रतीतेर्विभावादिप्रयोगे तु तान् विनाऽपि प्रतीतेश्चेत्यन्वय-व्यतिरेकाम्यां विभावादिविभाव्या एव रसादयोऽपि नाभिधेया इति । अथेत्थमभिधास्यते यदुपचारव्यापारेणैव तत् सर्वमपि प्रकाशयिष्यते, किं व्यञ्जनव्यापारेणेति; तदप्यश्वारूढोऽश्वमेव न पश्यतीति दृष्टान्तकवलितमेव विना व्यञ्जनव्यापारमुपचारस्याप्यभावात् । गङ्गायां घोष इत्यादौ हि तटादि लक्ष्यं पावित्र्यादयस्तु व्यञ्जनीया एवेति पूर्वप्रतिपादितमेव । अथ ' तेऽपि लक्षणाक्रोडीकृताः सन्तुं' इति मतम्, तदपि प्राक् प्रत्यादिष्टमेव अथ यद्येवमप्यभ्युपगम्यते, तथापि क्वचिदपि नोपचारप्रवेशः। तस्य हि मुख्यार्थबाधादित्रयं हेतुस्तच्च व्यङ्ग्ये न सम्भवति । यद्यपि क्वचिद् 'मम धम्मियं ' इत्यादौ विध्यादेरनुपपद्यमानत्वेन मुख्यार्थबाधो वैपरीत्यं च प्रत्यासत्तिनिषेधश्च लक्ष्यः स्वच्छन्दक्रीडा च फलं सम्भवति, तथापि न सर्वत्र निर्वाहः । यत:- अत्ता इत्थ ' इत्यादौ मुख्यार्थबाधो नास्ति । तत् कथमुपचारेणापि साध्यसिद्धिः । किं च लक्षणीयोऽर्थो नियतप्रत्यासत्तिरेव, प्रत्यासत्तिशून्यस्य लक्षयितुमशक्यत्वात् । प्रतीयमानः पुनः प्रकरणादिवि. शेषवशेन नियतप्रत्यासत्तिनियतप्रत्यासत्तिः प्रत्यासनप्रत्यासनश्चेति । तत्र 'अत्ता इत्थ' इत्यादौ नियतप्रत्यासत्तिः । 'कस्स व न होइ रोसो' इत्यादावनियतप्रत्यासत्तिः।
१ अ. •ते सि० । २ अ. प. ०र्थाव्य० । ३ प. चिदर्था० । ४ प. मालं० । ५ प. स्य प्र०।६ ५. संति म० । ७ भ. तस्या । ८ अ. 01 वी० । ९५. ० क्यमानत्वात् पुनः।
For Private And Personal Use Only