SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनि निर्णयो नाम तृतीयस्तरङ्गः । ११९ | अत्र वाच्योsर्थः सखीं प्रत्येव । व्यङ्ग्यस्तु अद्य मया समर्थितं पुनः शङ्कास्थानं त्वया रक्षणीयमिति । अयं किमपि वदति त्वं तु कुप्यसि, पश्चात् पादपतनेन प्रसाद्यसे । तत: ' सहसु ' शोभस्वति च तामेव प्रति । निरपराधैवेयमिति कान्तं प्रति । अनया विना त्वं न भवसि ततोऽपराधेऽपि मा स्माधिकं किमपि कार्षीरिति वैदग्ध्ये सति तमेव प्रति । भवताऽपि प्रकटाङ्गेषु नख- दन्तक्षतादिकं न कार्यमित्युपपतिं प्रति । प्रियाया एव व्यलीके रोषो भवति अप्रियायास्तु परित्यागवासनया प्रीतिरेव स्यादिति । मा भूद् युष्माकं मनसि तोष इति सपत्नीः प्रति । अस्याः साधु मयाऽपराधो गोपित इति तटस्थां विदग्धसखीं प्रति वेति विषयस्यापि भेदेन भिन्नमेव वाच्यात् व्यङ्ग्यं वस्तु । तदेवमपि यदि तयोरैक्यं तदा नीलानीलादौ क्वचिदपि भेदो न स्यात् । उक्तं हि - ' अयमेव हि दहेतुर्वा यद् विरुद्धधर्माध्यासः कारणभेदश्वेति । यदप्यभिधीयते -' यत् परः शब्दः स शब्दार्थस्तथाहि - ' यथा समरसीम्नि कार्मुकनिर्मुक्तपत्री तनुत्राणं भिश्वा सुमॅटलक्षणं लक्ष्यं भिनत्ति, तदर्थमेव तस्य मुक्तत्वात् तथा शब्दोऽपि मुख्यमर्थमभिधाय तदर्थान्तरमभिधास्यति, तदर्थमेव तस्य प्रयुक्तत्वादिति । तदतीव तात्पर्योक्तिपर्यालोचनशून्यमभिहितं यतः सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यत इति पदसमुदायमये वाक्ये कारकपदार्थाः क्रियापदार्थाच परस्परान्विता यावदसिद्धं भवति तावदर्थं प्रवर्तन्ते । यथा - ' लोहितोष्णीषा ऋत्विजः प्रचरन्तु ' इत्यत्र ऋत्विक्प्रचरणे प्रमाणान्तरसिद्धे लोहितोष्णीषत्वमात्रं विधेयम्, तस्यैवासिद्धत्वात् । दध्ना जुहोतीत्यादौ च हवनस्यान्यतः सिद्धेदेध्यादेः करणत्वमात्रं विधेयम् । तत्र हि तस्यैवासिद्धत्वम् । एवं कचिदुभयविधि, क्वचित् त्रिविधिरपि । यथा-' रक्तं पटं वय ' इत्यादावेकविधिर्द्विविधिनिविधिर्वा । ततश्व देव विधेयम्, तत्रैव पदानां तात्पर्यमिति प्रयुक्तशब्दार्थ एव तात्पर्य न प्रतीयमानमात्रे । एवं हि पूर्वो विद्वानित्यादावपराद्यर्थेऽपि तात्पर्य स्यात् । यदि च शब्दश्रुतेरनन्तरं यावानर्थः प्रतीयते तावन्तं सर्वमप्यभिधाव्यापारेणैव शब्दो वक्ति, तत् कथं प्रियाप्रियवाक्यश्रवणादुत्तरकालं हर्ष - शोकयोरपि न वाच्यत्वम् : कस्माच्च लक्षणालक्षणीयस्याप्यर्थस्याभिधाव्यापारे १ अ. भून्म० । २ अ. ०दो हे० । ३ प ०कप० । ४ व. ०टतक्ष०, अ. ०सुतटल० । ५१. ०दप्यर्था । ६ प. व्यसिद्धिः । ७व यावदेव । ८ प. व. ०रा० । ९ प. ०र्थः ता० । ० For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy