________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०]
अलङ्कारमहोदधि(कर्मग्रन्थ)स्य वृत्तिः ४०००, मूलावश्यकवृत्तेष्टिप्पनं ५०००, नन्दिटिप्पनकम् , तथा वि. सं. ११७५ वर्षे जयसिंहराजराज्ये २८००० श्लोकपरिमिता विशेषावश्यकसूत्र-भाष्यविवृतिरपि व्यधायि ।
___ एतस्य व्याख्यानगुणप्रसिद्धिं श्रुत्वा गूर्जरनरेन्द्रो जयसिंहः परिवारसंयुक्तः स्वयमेव जिनमन्दिरे आगत्योपयुक्तचित्तो धर्मकथां सुचिरं शृण्वन्नासीत्, कदाचित् तद्दर्शनोत्कण्ठितमानसश्च वसतांवागत्य चिरं संलापं कुर्वन्नासीत् । निजे धवलगृहे आगमनायामन्त्रितोऽयं सूरिवर्यो यदा तत्र गतस्तदा तेन महाराजेन सुवर्णभाजनस्थितार्यादिना भूरिभक्त्या पूजितः सत्कृत आसीत् ।
एतेनैव हेमचन्द्रसूरिणा जयसिंहराजमुक्त्वा तस्य सकले मण्डले जिनमन्दिरेषु मनोहरसुवर्णमयाः कलशाः समारोपिताः । धंधुक्कक-सत्यपुरप्रभृतिषु स्थानेष्वन्यतीथिभिः क्रियमाणा जिनशासनस्य पीडा सुराष्ट्रप्रभुराजखगारप्रबोधकेनानेन निवारिता, तेष्वन्यस्थानेष्वपि च रथपरिभ्रमणं कारितम् । देवदायस्य रक्षा-वृद्धिकृते सङ्घन सह शत्रुञ्जयोजयन्ततीर्थयात्रादिकते जिनशासनोन्नतये च बहु प्रयतितम् । एतस्य श्मशानयात्रायामनुगमनेनान्तिमसन्मामनं कृतमासीत् सिद्धराजेनेत्यादि ज्ञायते तत्कालीनकविना तदीयपट्टधरेण वि. सं. ११९१ वर्षे विजय सिंहसूरिणा विरचिताया धर्मोपदेशमालाविवृतेः, श्रीचन्द्रसूरिणा च वि. सं. ११९३वर्षे रचितस्य ११००० पद्यपरिमितस्य प्राकृतमुनिसुव्रतचरितस्य प्रान्तप्रशस्तितः, याऽस्माभिः पत्तनस्थप्राच्यजैनभाण्डागारग्रन्थसूच्याम् [गा. प्रा. ग्रं. ७६, पृ. ३११-३२३ ] पादर्शि*।
विजयसिंहरिः । अत्र प्रान्ते (पृ. ३३९) तृतीये पद्येऽस्य स्मरणमकारि । एतस्य कृतिरूपं १४४७१ श्लोकपरिमितं धर्मोपदेशमाला-विवरणं वि. सं. ११९१ वर्षे निष्पन्नं तत् समसूच्यस्माभिः पत्तनभां० सूच्याम् [गा. प्रा. ग्रं. ७६, पृ. ३११]
श्रीचन्द्ररिः । अत्र प्रान्ते (पृ. ३३९) चतुर्थपद्ये संस्मृतस्य संग्रहणीरत्नक्षेत्रसमासादिकर्तुरस्य ११००० श्लोकपरिमितं संवत् ११९३ वर्षे निष्पन्न प्राकृतं मुनिसुव्रतचरितं पत्तनभा० सूच्याम् [ गा. प्रा. ग्रं, ७६ पृ. ३१४ ] ऐतिहासिकाशस्त्या समं समसूच्यस्माभिः । वि. सं. ११९९ वर्षे विरचिते प्रा. सुपार्श्वनाथ.
* अत्र पीटर्सनरि. ४, ५ प्रभृतौ जातं स्खलनं 'जैन' साप्ताहिके समशोधि 'सिद्धराज अने जैनो' संजिवायां लेखमालयामस्माभिः सं. १९८२-८३ वर्षेषु ।
For Private And Personal Use Only