________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना।
[९] निर्ग्रन्थानां तिलकं लक्षावधिश्लोकविनिर्माता स हेमचन्द्रसूरिरस्य सुशिष्यः समनि । गूर्जरेन्द्रनगरेऽणहिल्लपाटकपत्तनेऽन्तिमानशनस्थितस्यास्य चाभयदेवसूरदर्शन वन्दनाद्यर्थ रामप्रभूतिजनानां ग्राम-नगर-देशनिवासिश्राद्धानां च सम्मर्दः समजनि । परभवं प्राप्तस्य च यस्य शरीरस्य श्रीखण्डविमानारोपणादि-श्मशानयात्राऽग्निसंस्कारमहोत्सवोऽपूर्वः श्रद्धा-भक्तिनिर्भरैरकारि । तत्कालीनं दृश्यं प्राकारपश्चिमाट्टालके स्थितेन जय. सिंहराजेन निनपरिजनेन सह प्रैक्षि । तस्य चितास्थानरक्षा-मृत्तिकाऽऽद्यपि लोकानां रोगादिबाधाहरमजनि । वणितमेतत् समकालीनैः साक्षिश्रीचन्द्रसूरिप्रभृतिभिः सुकविभिः।
हेमचन्द्रमरिः। पूर्वोक्तस्याभयदेवसूरेः पट्टधरोऽयमत्र(पृ.३३९) प्रान्तप्रशस्तिद्वितीयपद्ये संस्मृतः" शिष्यस्तदीयोऽजनि हेमसरिरपारविद्यार्णव-कर्णधारः ।
श्रीसिद्धराजः किल यस्य वाचं बभार शेषामिव मूर्धिन शश्वत् ॥"
एतेन भगवती जिह्वाग्रे कृताऽऽसीत, अर्धलक्षश्लोकपरिमिता मूलग्रन्थविशेषावश्यक-लक्षण-प्रमाणादिग्रन्थाश्च पठिता आसन् । राजामात्यादिबहुलायां सभायां गम्भीरध्वनिनाऽनेन उपमितभवप्रपञ्चादि भूरि भूरि व्याख्यातमासीत् ।
वि. सं. ११६४ वर्षेऽणहिलपाटके जयसिंहराज्ये एतल्लिखिता ६६२७ श्लो. कपरिमिता निजनिर्मिताया जीवसमासवृत्तेस्ताडपत्रीयपुस्तिकोपलभ्यतेऽद्यावधि स्तम्भतोर्थ(खंभात)जैनपुस्तकभाण्डागारे [ पि. रि. १, १८ ], एतेन १४००० श्लोकपरिरिमिता स्वोपज्ञोपदेशमाला-सूत्र-वृत्तिा, वि. सं. ११७० वर्षे १३००० श्लोकपरिमिता स्वोपज्ञभवभावनासूत्रवृत्तिय॑रचि,अनुयोगद्वारसूत्रस्य वृत्तिः ६०००, शतक, "त(य)स्योपदेशान्निर्मुच्य चतनश्चपलेक्षणाः । प्रद्युम्नो राजसचिवश्चारित्रं प्रत्यपद्यत ॥ श्रीहेमचन्द्र इत्यासीत् सूरिभूरिगुणः स तु । ग्रन्थलक्ष-विनिर्माता निर्मन्थानां विशेषकम् ॥ विंशत्यूनममारिपत्रलिखितं प्रत्यब्दमह्नां शतं
___ क्षोणी जात्यसुवर्णदण्ड-कलशैश्चैत्याप्रशृङगारणम् । म्याख्यानाबसरे स्वयं जिनगृहास्थामण्डपे वाचनं
श्रीसिद्धाधिपतिबंधात् स्व...मिदं यत्पादपूजापदे ॥" -प्राकृतद्वचाश्रय-वृत्ति-प्रशस्तो श्लो० ९-११ [पत्तनस्थप्राच्यजनभाण्डागारीयग्रन्थसूच्याम् २] प्रतियोध्य सिद्धभूधवमुद्दण्डैः कनकदण्डकलशैर्यः । उत्तसितवान् परितः स्वदेश-परदेशचैत्यानि । प्रतिवर्ष जीवरक्षामर्शात्यहमशीत्यहम् । यस्योपदेशात् सिद्धेशस्ताम्रपत्रेवलीलिखत् ॥”
-न्यायकन्दलीपलिकाप्रशस्तो [ श्लो. ९, १० पी. रि. ३, ६७४, २७५ ]
For Private And Personal Use Only