SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८] अलङ्कारमहोदधिगोपगिरि( ग्वालियर )शिखरस्थितमहावीरजिनायतनस्य चिरकालमवरुद्धं द्वार येन तत्र गत्वा भुवनपालभूपालं भणित्वा प्रोघटितमकारि । यस्य सदुपदेशाद गूर्जरेश्वरः सुप्रसिद्धराजाधिराजसिद्धराजजयसिंहोऽखले खदेशे पर्युषणादितिथिषु, एकादशीमुख्य(८०)दिनेषु शासनदानपूर्वाममारिमकारयत् । येन वरणगसुतं संत्यसचिवमुपदिश्य भृगुकच्छे शकुनिकाविहारे जिनचैत्ये सुवर्णमयाः कलशाः समारोपिताः । यस्य च सन्देशकेनापि शाकम्भरीनरेन्द्रेण पृथ्वीराजेन भूभुजा रणस्तम्भपुरे (रणथंभोर )-जिनालये सुवर्णकुम्माः स्थापिताः। संयममार्गप्रकाशकेन सदुपदेशकेन येन लोको दान-तपः-पूजा-कल्याणकमहोत्सवाष्टाह्निकादिधर्मकार्येषु प्रवर्तितः तस्योपदेशात् प्रद्यम्नो राजसचिवः चतस्रः प्रियाः परित्यज्य चारित्रं प्रत्यपद्यत, एतदनुसारि वच उपलभ्यते हर्षपुरीयगच्छ-सद्गुरुपद्धती- [ पि. रि. ५, १६ ] " हरिसउरगच्छतिलओ गुणनिलओ विहियसयलदुहविलओ। निरिअभयदेवसूरी सुविहियचूडामणी जयउ॥ कालवणं अवहे अहिणवपहियस्स पुवसाहुपहे । जस्स मलहारिनाम दिन कम्मेण नरवइणा ।।" सं. १३८७ वर्षे एतदनुसरति स्म राजशेखरहिः प्राकृतव्याश्रयवृत्ति-प्रशस्तो को. . [पत्तनस्थप्राच्यजनभाण्डागारीयप्रन्यस्च्याम् २], न्यायकन्दली-वृत्ति-पत्रिकाप्रशस्तौ च [ श्लो.५ पी. रि. ३, पृ. २४] " श्रीगजरेश्वरो दृष्ट्वा ती मलपरीषहम् । श्रीको बिरुदं यस्य मलधारीत्यघोषयत् ॥" सं. १३८०, १४०६ वर्षे सुधाकलशश्व सीतोपनिषत्सारोद्धार-प्रान्ते(पत्तनीयप्रन्यसूच्याम् २) " तद्गच्छेऽभयदेवसूरिसुगुरोः श्रीकर्णभूपेन यः संज्ञा सन्मलधारिणीति स्वयं निर्मिता ।" जिनप्रभसूरिणा सं. १३८९ वर्षे विरचिते तीर्थकल्पे 'मलधारि' नाम जयसिंहनरेन्द्रा बिरदेशि, किन्तु तद्गच्छीयानां पूर्वोक्तानुसारेण कर्णराजात् तत्प्रख्यातिरधिकप्रामाणिका प्रतिभाति । वि. सं. १७१५ वर्षे भावविजयगणिरप्यन्तरिक्षपार्श्वनाथमाहात्म्ये (लो. ८६, ८५.५८)" श्रूयतेऽभय देवाख्यः सर्पशास्त्रविशारदः । मान्यो बहुषु भूपेषु सुरिः सुरीबलान्वितः ।। गर्जरदेशियो राजा कर्णः कर्णेव विक्रमः । स ददौ श्रीमति सूरी मलधारिमहापदम् ॥ ___ x x प्रतिष्ठाविधिना सूरिः प्रतिष्ठापितवांस्तदा ।। द्विचत्वारिंशदुत्तरकादशशत [११४२] विक्रमे । माषसितपञ्चम्यके मुहूर्ते विजयागते ॥ " For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy