SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावनी । [७] गच्छस्य प्रसिद्धिः । मध्यमाशाखाप्रभवस्य प्रभावकस्य प्रियग्रन्थसूरेः परिचय उपलभ्यते वि. सं. १६२८ वर्षे धर्मसागरगणिविहितायां कल्पसूत्र-किरणावस्याम् (पृ. १६९), सं. १६९६ वर्षे विनयविजयगणिविरचितायां कल्पसूत्र-सुबोधिकायाम् [ पृ. १६७१६८ ] च वृत्तौ । एतद्गच्छीयजयसिंहसूरिः शाकम्भरीदेशे सन्मानित आसीत् । एवं च तदनुयायिनो गूर्जरेश्वराणां हर्षपूरका आसन् । राजमान्यैरधिकारिमान्यैः प्रजाप्रियैर्विद्वदभिः सद्गुणिभिः सच्चरितैश्चैतैराचार्यगुर्जरादिदेशेष्वपि बहूपकृतमिति तदीयग्रन्थाद्यवलोकनेन विज्ञायते । नरेन्द्रप्रभसूरिरप्यत्र तद्गच्छीयपूर्वजगुरुपरम्परां समसूचयत् । प्रमाणान्तरसंवादेनात्रैवं क्रमेण सा निर्दिश्यते-- (प्रश्नषाहनकुले) हर्षपुरीयगच्छाधिपति-सूरि-परम्परा। जयसिंहमूरिः अभयदेवसरिः ( मलधारी) हेमचन्द्रसरिः विजयसिंहरिः श्रीचन्द्रसूरिः पिबुधचन्द्रसूरिः लक्ष्मणगणी मुनिचन्द्रसूरिः देवभद्रसूरिः देवानन्दसूरिः यशोभद्रसरिः देवप्रभसूरिः नरचन्द्रसूरिः नरेन्द्रप्रभसरिः अभयदेवसूरिः ( मलधारी)। प्रश्नवाहनकुलोद्भूतहर्षपुरीयगच्छीयजयसिंहसूरेः शिष्योऽयं नि:स्पृह - निम्रन्थशिरोमणिः प्रशस्तगुणगणशाली राजमान्यः समभूत् । अलङ्कारमहोदधिकारेणात्र निरदेशि यदयं गुरुगुर्जरेश्वरकर्णराजकृतं ' मलधारी' इति नामान्तरमधारयत् । १ “ गच्छे हर्षपुरीये गुणसेवधिरमयदेवसूरिरभूत् । मलधारीत्यभिधाऽन्तरमधन यः कर्णभूपकृतम् ॥" -~-अलङ्कारमहोदधि-प्रशस्ती (लो. १) For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy