________________
Shri Mahavir Jain Aradhana Kendra
[]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधि
अर्बुद - गिरिनारप्रभृतितीर्थ - धर्मस्थानप्रतिष्ठापक - वस्तुपाल - तेज : पालधर्माचार्यश्रीविजय सेन सूरिनिर्मितो रेवन्तगिरिरासोऽत्रैव (गा. प्रा. ग्रं. १३) प्राचीनगूर्जरकाव्यसंग्रह प्रकाशितः । तत्र निम्ननिर्दिष्टेष्वनन्तरेष्वितरेष्वपि च वस्तुपाल- संस्मरणान्युपलभ्यन्ते ।
वि. सं. १३६१ वर्षे मेरुतुङ्गसूरिणा प्रबन्धचिन्तामण ( वस्तुपाल - प्रबन्धः), पुरातनप्रबन्धसङ्ग्रहे
99
वि. सं. १३८९ वर्षे जिनप्रभसूरिणा तीर्थकल्पे ( वस्तुपाल - तेज : पाल - कल्प: ), वि. सं. १४०५ वर्षे राजशेखरसूरिणा प्रबन्धकोशे ( वस्तुपाल - प्रबन्ध: ), वि. सं. १४९७ वर्षे जिनहषंगणिना रचिते वस्तुपाल - चरितकाव्ये | वि. सं. १९०३ वर्षे पं. सोम मंगणिना उपदेशसप्ततौ । वि. सं. १९१७ वर्षे रत्नमन्दिरगणिना उपदेशतरङ्गिणीप्रभृतौ । वि. सं. १९२१ वर्षे शुभशील गणिना प्रबन्धपञ्चशती - कथाकोशे ।
वि. सं. १४८४ वर्षे हीरानन्दसूरिणा षोडश - सप्तदशाष्टादशशताब्दीसम्भवैश्वेतरैर्लक्ष्मीसागरसूरि-पाश्वेचन्द्रसूरि समयसुन्दर - मेरुविजयायनेकैः कविभिर्गुर्जराविदेशभाषायां वस्तुपाल - तेज: पालरासकाव्यानि रचितानि ।
उपर्युक्तांश्च ग्रन्थादीनाश्रित्याधुनिकेरप्यनेकैर्भिन्नभिन्नरचनाऽकारि । वि. सं. १९८२-८३ वर्षे 'जैन' साप्ताहिकपत्रे ' सिद्धराज अने जैनो ' संज्ञिकायां लेखमालायाम्, ' तेजपालनो विजय ' नामनि निबन्धेऽपि च मया किञ्चि तत्परिये सूचितम् ।
हर्षपुरीय गच्छाचार्याः |
46 राजानः प्रतिबोधिताः कति कति ग्रन्थाः स्वयं निर्मिता: ! वादीन्द्राः कति निर्जिताः कति तपांस्युग्राणि तप्तानि च ? श्रीमदहर्षपुरीयगच्छमुकुटः श्रीसरिसुत्रामभिः
सच्छिष्यैर्मुनिभिश्च वेत्ति नवरं वागीश्वरी तन्मितम् ॥ ”
- सुधाकलश: सङ्गीतोपनिषत्सारोद्धारे [ अ. ६, छो, ४८ ] प्रस्तुतालङ्कारमहोदधिकारेणात्र निजपरिचये हर्षपुरीयगच्छस्योल्लेखोऽकारि ।
तस्य प्रादुर्भावः पर्युषण कल्पसूत्र - स्थविरावल्यां निर्दिष्टात् कोटिकगण - मध्यमाशाखासम्बद्धप्रभवाहनकुलात् ज्ञायते । अजयमेरु निकटवर्ति सुभटपाट पालि त पुरतोऽस्य
For Private And Personal Use Only