________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना ।
[*]
वि. सं. १२८७, ८८ वर्षेषु अर्बुदगिरि - गिरिनारजैनमन्दिर - शिलालेखादौ, सुरथोत्सवप्रान्तसर्गे, उल्लाधराघवादौ च प्रतिसर्गप्रान्ते ।
सुकृतसङ्कीर्तनम् -कविरत्नारिसिंहेन निर्मितमेतदेकादशसर्गमयं महाकाव्यम्, यत्र च प्रतिसर्गप्रान्ते श्लोकचतुष्टयं निर्ममे तत्सहचरेण सुकविनाऽमरेण ।
वसन्त विलास महाकाव्यम् - सिद्धसारस्वताचार्यबालचन्द्रकविरचितं महामात्यस्वगैगमनादनन्तरं तत्पुत्रजयन्त(जैत्र) सिंह सचिव मनोविनोदकृते चतुर्दशसर्गात्मकमेतदपीत एव( गा. प्रा. ग्रं. क्र. ७ ) प्रकाशितम्, येन कविना वस्तुपालनिर्मितशत्रुञ्जयतीर्थेन्द्रमण्डपेsभिनया करुणावज्जायुघरूपकमपि रचितम् ।
धर्माभ्युदय महाकाव्यम् (सङ्घपतिचरितम्) - लक्ष्म्यङ्कमेतत् पण्डितपुण्डरीकेण नागेन्द्रगच्छीय विजयसेन सूरिपट्टधरेणोदयप्रभसूरिणा रचितम् । इत: प्रकाशिते प्राचीनगूर्जरकाव्यसंग्रहे ( गा. प्रा. ग्रं. १३ ) यस्य पञ्चदशः सर्गः प्रकाशितः, सम्पूर्णमिदं पुण्यविजय मुनिराज प्रयत्नादचिरात् प्रकाशतामागमिष्यति ।
सुकृतकीर्ति - कल्लोलिनी - पूर्वोक्तस्यैवोदयप्रभसूरेः कृतिरेषा अत्रैव ग्रन्थमालायां हम्मीरमदमर्दन - प्रान्ते तृतीयपरिशिष्टरूपेण प्रकाशिता ।
हम्मीरमदमर्दनं नाटकम् - मन्त्रीश्वरवस्तुपालप्रसस्त्या साकमेतत् सुकविना जयसिंह लूरिणा निर्मितं सं. १२८६ वर्षीयताडपत्र पुस्तकादित एव (गा. प्रा. ग्रं. १०) प्रकाशितम् ।
वस्तुपाल - प्रशस्ति: ( १ ) - येनास्य महामात्यस्य प्रार्थनया कथारत्नसागरों निर्मितः, येन चायमलङ्कारमहोदधिर्निजशिष्यात् कारितस्तेन नरचन्द्रसूरिणा रचितेषा प्रशस्तिरत्र चतुर्थे परिशिष्टे प्रकाश्यमाना प्रमदावहा भविष्यति ।
वस्तुपाल - प्रशस्तिद्वयम् - ( २ - ३ ) - अलङ्कारमहोदधिकर्त्राऽनेनैव ग्रन्थकारेण नरेन्द्रप्रभसूरिणैकत्र प्रशस्तौ १०४ पद्येषु मन्त्रीश्वरवस्तुपालविहितानि विविधस्थानी - यानि विविधानि सुकृत्यानि संस्मृतानि । अन्यस्यां च ३७ पद्यपरिमितायां प्रशस्तौ तदीयं सुयशः प्राकाशि । एतच्चात्र प्रान्ते परिशिष्ट ( ५ - ६ ) रूपे प्रकाशितं समुपयुक्तं ज्ञास्यते । एतदन्तर्गतानि कानिचित् पद्यानि गिरिनार गिरिशिखरस्थे वि. सं. १२८८ वर्षीये मन्त्रीश्वबन्धुकारितजिनालयप्रशस्ति - शिलालेखे नरेन्द्रसूरिनाम्नोट्टतान्यपि दृश्यन्ते ||
For Private And Personal Use Only