________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
११६
अलङ्कार महोदधौ
मलङ्कुर्वन्तः केचिदुपमादयः पुनरर्थं माधुर्यादयश्च गुम्फधर्मा रसानुसारिणः । केचन तदात्मवृत्तयोऽप्युपनागरिकाद्याः काश्चित् प्रतीयन्ते । नान्यत् किमपि । तत् कोऽयं नूतनेः काव्यप्रभेदो ध्वनिर्नाम ? न ह्यस्य क्षोदक्षमं किमपि स्वरूपमुपलभामहे यदुक्तं केनचित् -
Acharya Shri Kailassagarsuri Gyanmandir
" यस्मिन्नस्ति न वस्तु किश्चन मनःप्रहादि सालङ्कृति व्युत्पन्नै रचितं च यन्न वचनैर्वक्रोक्तिशून्यं च यत् । काव्यं तद् ध्वनिना समन्वितमिति प्रीत्या प्रशंसन् जडो नो विद्योऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥ २७३॥ पूर्वाचार्य प्रसिद्धप्रस्थान व्यतिरेकिणश्च काव्यप्रकारस्य काव्यत्वमपि हीयेत । भूयांसश्च भणितिप्रकाराः कवीनां कविताकामनीयत्वहेतवः सम्भवन्ति । तेषां च कियतामपि पूर्वाचार्यैः कृतान्येव लक्षणानि, न सर्वेषामानन्त्यात् । ' सचेतनचमत्कारि काव्यम् ' इत्यस्मिन् काव्यलक्षणे तेषामप्यन्तर्भावात् । ततो यदि कश्चिदयमपि प्रकारलेशः सम्भवति । सोऽपि तत्रैवान्तर्भविष्यति तल्लक्षणक्रोडीकृतत्वादिति । तस्य ध्वनिरिति पृथग्नामधेयकरणमुपपन्नमेवेति । 'न किञ्चिदभिधोपचाव्यापाराभ्यामतिरिक्तं व्यञ्जनव्यापारं तदवसेयं च व्यङ्ग्यमपि न किश्चन मन्यामहे ' इति यदुक्तं कैश्चिद् देवानांप्रियैस्तदविचारितवचनमेवः यस्मात् सकल कालिदासप्रभृतिमहाकविकाव्येषु सहृदयहृदयसंवेद्यं परिस्फुरत्येव वाच्यादेंर्थादधिकं किमप्यर्थान्तरं तच्च वस्त्वलङ्कार - रसरूपत्वात् त्रिविधमपि तावन्नाभिधाव्यापारप्रकाश्यं वाच्यादर्थादत्यन्तभिन्नत्वात् । तथाहि कचिद् वाच्ये विधिरूपे प्रतिषेधरूपं वस्तु प्रतीयते । यथा - भम धम्मियं ! वीसद्धो इत्यादि गाथा । अत्र विश्रब्धो भ्रमेति विधिवाक्ये, तत्र निकुञ्जे सिंहस्तिष्ठति, त्वं च शुनोऽपि विभेषि, तस्मात् त्वया तस्मिन्न गन्तव्यमिति निषेधः प्रतीयते । कचिनिषेधे विधिरूपं यथा - : ' अत्ता इत्थ णुमर्जई ' इत्यादि गाथा । अत्र + 'मा पहि' इत्यादि निषेधे वाच्ये इमां श्वश्रूशय्यां परित्यज्य रात्रौ त्वया श्वश्रूरत्र निमज्जति । + मा पथिक ।
6
* भ्रम धार्मिक ! विश्रब्धः ।
१ अ. ०नप्र० । २ अ. व्यम० । ३ अ. व. हीयते । ४ अ. वनां कमनीयक हे ०, • ताक० । ५ अ. तत्रैवा० व. ० सोप्यत्रै० । ६ व. ०ति कि० । ७ व ०च्यादधि० । ८ अ भि० ।९ अ ०म्मिश्र । १० प ०इ गा० ।
For Private And Personal Use Only
99
व.
तं
ܕ