SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ ध्वनि निर्णबी नाम तृतीयस्तरङ्गः । गतेपत्तिरोधीयमानत्वाद् रभसोन्मुखस्वरूपाच्च सादृश्याद् नगम-मयूराम लक्ष्यन्वे । अत्र च कुकुमादिलिप्तमुखादिसारूप्यद्वारेण रामणीयक- मदनोद्दीपकत्वादिस्तुल्योत्कर्षापकर्षाश्रयत्वादिश्च क्रमादतिशय व्यङ्ग्यावनयोश्च सादृश्यहेतुः त्वेन वाच्यस्यानुपपद्यमानत्वादत्यन्ततिरस्कृतवाच्यत्वम् । ताभ्यां सह रामोऽस्मीत्यर्थान्तरसङ्क्रान्तवाच्यस्यानुग्राह्यानुग्राहकभावेन सङ्करः । तथा च रामशब्देन प्रतीतत्वाद् बाधितमुख्यार्थेनाधाराधेयरूपात् सम्बन्धात् राज्यभ्रंश - प्रवास - पितृमरण - सीताहरणादिदुः खपात्रत्वं लक्ष्यते । निःसामान्य निर्वेदादिप्रकटनमतिशयो व्यङ्ग्यः । अयं च वाच्यस्य रामरूपस्य राज्य भ्रंशादिदुः ख पार्थरूपेऽर्थान्तरे सङ्क्रान्तत्वादर्थान्तरसङ्क्रान्तवाच्य एव न स्वस्थन्ततिरस्कृतवाच्यो मुख्यार्थस्यापि कथश्चिदुपयुज्यमानत्वादिति । सोऽयमनुग्राह्यः पूर्वौ चानुग्राहकौ । तथा रामपदरूपैकव्यञ्जकन्यञ्जनीयत्वेनार्थान्तरसङ्क्रान्तवाच्य रस- वन्यो रेकव्यञ्जकत्वानुप्रवेशरूपः सङ्करः । तथा " + " छणपाहुणिया देयर ! जायाए सुहय ! किं पि दे भणिआ । रुप पडोहरवलहीहरंमि अणुणिजउ वराई || २७२ ।। " अत्र पडोहरं गृहपश्चाद्भागस्तत्र वलमी गोमय पिण्डसमूहस्तदुपलक्षिते गृहे । अत्र च स्वभार्यया कोपितत्वादनुनये लब्धेऽनुनीयतामित्यस्यानुपयुज्यमा नस्वाद बाधितार्थेन कार्य कारणभावरूपे सम्बन्धे सत्यनुनयेमोपभोगरूपमर्थान्तरं लक्षयता तोषोत्पादनादि व्यज्यत इत्यनुनयः । सुमगशब्देन दत्ताषका शे किमुपभोगरूपेऽर्थान्तरे सङ्क्रान्तः किं वाऽनुरणनन्यायेनोपभोग एव व्यङ्ग्ये व्यञ्जक इति संशयास्पदत्वेन सङ्कर इति । ननु भोः ! क एष व्यञ्जनव्यापारो नाम ? किं च तदवगम्यं व्यङ्ग्यं व्यङ्ग्यमिति कथ्यते, यदाकाशकुसुमप्रार्थ किञ्चिदङ्गीकृत्य स्ववासनासम्भावित प्रमोदभरनिर्भरैरलौ कविदग्धतामुकुलितलोचनैर्भवद्भिरुन्मचैरिव नित्यमेवं नृत्यते । यतः शब्दार्थशरीरे काव्ये केऽप्यनुप्रासादयः शब्द + क्षणप्राघूर्णिका देवर ! जायया सुभग 1 किमपि ते भणिता । रोदिति गृहपश्चाद्भागवलभीगृहेऽनुनीयतां वराकी || १ अ. ० नश्वरूपाद्, व. ०नरूपाद् । २ प ० वलिप्त० । ३ अ ०च्यरू० । ४ प. ० त्वरू० । ५ अ. ० कानुरू०, व. ०कानु० । ६ अ ०णिया । ७ अ, रुभइ । ८ प ०ई अत्र स्व० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy