________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११४
मकार महोदव
कथिताः । तत्र शब्दशक्तिमूलस्य ध्वनेः पद-वाक्यव्यङ्ग्यत्वेनाष्टौ मेदाः । पदवाक्य-प्रबन्धव्यङ्ग्यत्वेनार्थशक्तिमूलस्य चतुर्विंशतिः । पद- वाक्य - प्रबन्ध-पदमध्य-रचना - वर्णव्यङ्ग्यत्वेन रसादीनां च षट् । एकश्चोभयोत्थस्य । तदेवमेकोनचत्वारिंशद् भेदाः || ६३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ व्यङ्ग्यभेदानां संसृष्टि - सङ्कराभ्यां परस्परसम्पर्के शुद्धभेदमीलने च सर्वसङ्ख्यामाह -
संसृष्टेरेकरूपायास्त्रिरूपात् सङ्करादपि । सिद्धभिन्मीलनाच्च स्युस्ता विश्वार्क - रसौर्मिताः ॥ ६४ ॥
3
व्यङ्ग्यभेदानां मिथो निरपेक्षाणामेकत्र काव्येऽवस्थानं संसृष्टिस्तस्याचैतदेवैकं रूपम् । सङ्करस्य तु त्रीणि रूपाणि संशयास्पदत्वमनुग्राह्यानुग्राहकत्व मेकव्यञ्जकानुप्रवेशश्चेति । तत्र संसृष्टेरेकैको भेद एकोनचत्वारिंशता भेदैः सह संयुज्यमानः प्रत्येकमेकोनचत्वारिंशतं भेदान् लभते । ततश्चैको न चत्वारिंशदे कोनचत्वारिंशता गुणिता सत्येकविंशत्यधिक पञ्चदशशतप्रमाणा जाता १५२१ । एवं त्रिरूपात् सङ्करादपि भेदसंयोगे प्रतिरूपं तावत्येव भेदसङ्ख्या । ततश्च राशिचतुष्टयमीलने जातानि चतुरशीत्यधिकानि षट् सहस्राणि ६०८४ । तेषु च शुद्धभेदानामेकोमचत्वारिंशतो मीलनात् ता व्यङ्ग्यमिदा विश्वार्क र सैर्मितास्त्रयोविंशत्यधिकैकशितश्रमाणा ६१२३ जायन्ते । तत्र दिङ्मात्रमुदाह्रियते -
66
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका ना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु हर्द कठोरहृदयो रामोऽस्मि सर्व सहे
19
वैदेही तुं कथं सहिष्यति हहा हा ! देवि ! धीरा भव || २७१ ॥ अत्र लिप्तेति पयोदसुहृदामिति चात्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । तथाहि - लिप्त - सुहृदशब्दाभ्यां कान्तेः कुङ्कुमा दिगले पसाधनत्वाभावात् मयूराणां विशिष्ट चैतन्यशून्यत्वेन मैत्री भाजनत्वाभावाच्च बाधितस्वार्थाभ्यां स्वार्थ
१ अ. व्य० । २ प. स्थानेव० । ३ अ ०दैः सं० । ४ अ. व. ०कप० । ५ प घटा । ६ प.व. ०सहो । ७ व प ति । ८ प. व. भविष्य० । ९ अ ०तन्यत्वे मै० ।
For Private And Personal Use Only