SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अत्र प्रशब्दस्य । www.kobatirth.org ध्वनि निर्णयो नाम तृतीयस्तरङ्गः । Acharya Shri Kailassagarsuri Gyanmandir विभक्तिविशेषस्य यथा " प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् । दिवसेन तु नरप ! भवानयुद्ध विधिसिद्धसाधुवादपदम् ।। २६९ ।। " ११३ 11 अत्र दिवसमित्यनेन सर्वं दिनमभिव्याप्य वैरिभिरयोधि, फलं तु न प्राप्तमिति । दिवसेनेत्यनेन च दिवसव्याप्तौ सत्यामपि " सिद्धौ तृतीया [ हैमश० २ । २ । ४३ ] इति तृतीयाविधानात् फलसिद्धिर्गम्यते । सर्वनाम - वचनादीनां यथा " रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परामस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति श्रेणीभूत विशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ॥ २७० ॥ ” अत्रासावित्येकः । वनेष्विति त्रिष्वपि जगत्सु । गुणैरित्यसङ्ख्यैर्न त्वेकेनेत्येकवचन - बहुवचनयो: । अस्मदिति सर्वेषामप्यस्मत्कुलोद्भवानां न तबैकस्य, न ममैकस्य । भाग्यविपर्ययादिति भाग्यानां विपर्ययात् क्षय हेतुत्वेनान्यथाभावरूपान्न स्वभावमात्रात् । भाग्याभावे हि प्रभुत्वं न स्यात् ननु प्रत्युत क्षयः स्यादिति सर्वनाम - प्रातिपदिकयोः । एवमन्येषामपि बोद्धव्यम् । रचनार्वर्णाभिव्यञ्जकत्वं गुणस्वरूपनिरूपणे वक्ष्यते । अथ व्यङ्ग्यभेदानां सर्व सख्यामाह व्यङ्ग्यार्थस्य तदेकोनचत्वारिंशद् भिदाः स्मृताः ॥ ६३ ॥ तव तेन पूर्वोक्तप्रकारेण व्यङ्ग्यार्थस्यैकोनचत्वारिंशद् भिदा भेदाः स्मृताः For Private And Personal Use Only १ प. व. ०दिनव्या० । २ व. ०शालविवरोदीर्णैः । ३ प ० लोभूतानां । ४ प ०त्वान्य० । ५ अ. प्रतिपा० । ६ प ० वर्णना० । ७ प ०पवर्णने । १५
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy