SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ परित्यक्तं सर्व हसित-पठितं पञ्जरशुकै स्तवावस्था चेयं विसज कठिने ! मानमधुना ॥ २६५ ॥" अत्र न लिखतीति किन्तु लिखन् प्रसादपर्यन्तमास्ते । तथाऽऽस्त इति, न त्वासितः । भूमिमिति, न तु भूमौ । न हि बुद्धिपूर्वकं रूपकं किश्चिल्लिखति, किन्तु चिन्ताशून्यतया निरभिप्रायं भूमिमेवोल्लिखतीति कर्मत्वेन प्रतीयते । वचनस्य यथा* " ताण गुणग्गहणाणं ताणुकंठाण तस्स पेमस्स । ताण भणियाण सुंदर ! एरिसयं जायमवसाणं ॥ २६६ ॥" अत्र 'ताण त्ति' तत्तद्भावगर्मितत्वेन मम प्रसिद्धानां गुणग्रहणानामुस्कण्ठानां च बहुवचनेनं बहुत्वं ' तस्स त्ति' तस्य वचनानभिधेयस्य प्रेम्णश्चैकवचनेनैकरूपत्वं रसप्रकर्षकारि द्योत्यते । पूर्वनिपातस्य यथा" येषां दोबलमेव दुर्वलतया ते सम्मतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्य किमुर्वीश्वरैः ।। ये माशक ! पुनः पराक्रम-नयस्वीकारकान्तक्रमा स्ते स्युनैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ।। २६७॥" अत्र पराक्रमस्य प्राधान्यम् । उपसर्गस्य यथा" परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ २६८ ॥ " * तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः । तेषां भणितानां सुन्दर ! ईदृशं जातमवसानम् ।। १ . भाण | १ . न त । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy