SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० . महकारमहोदधौ अत्रोतोक्षया प्रत्यालिङ्गनादि तत्र जृम्भत इति वस्तु घोत्यते । " स वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । __ योऽम्बु कुम्भैः परिच्छेदं कर्तुं शक्तो महोदधेः ॥ २५९ ॥" अत्र निदर्शनया हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपः प्रकाश्यते । दीपक-रूपकादिषु या काचिदुपमाद्यलकारान्तरप्रतीतिस्तत्र न व्यङ्ग्यव्यवहारः कविव्यापारसंरम्भाभावात् । यत्र हि कविर्विशेषतः संरभते तत्र व्यङ्गयव्यपदेशः । तत्कृतश्च काव्यचारिमा दीपकादिषु पुनरुपमादीन् प्रति न कविसंरम्भो न च तत्कृतश्चारिमा, किन्तु दीपकादिकृत एव । यथा* " चंदँमऊहेहिं निसा नलिणी कमलेहि कुसुमगुच्छेहि लया । हंसेहिं सरयसोहा कव्वकहा सजहिं कीरइ गुरुई ।। २६० ॥" अत्र दीपकेनैव काव्यव्यवहारो नौपम्येन ॥ ६१ ॥ अथार्थशक्तिमूलस्य रूपान्तरमाहपदे वाक्ये प्रबन्धे च भवत्यर्थोद्भवः पुनः । अर्थोद्भवोऽर्थशक्तिमूलानुरणनरूपो ध्वनिः पदे वाक्ये प्रबन्धे च भवति । तत्र पद-वाक्ययोः पूर्वमुदाहृत एव । प्रबन्धे यथा गृध्र-गोमायुसंवादादौ । तथा च- " अलं स्थित्वा स्मशानेऽस्मिन् गृध्र-गोमायुसङ्कुले । न चेह जीवितः कश्चित् कालधर्ममुपागतः ।। २६१ ॥" इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् । * चन्द्रमयूखैनिशा नलिनी कमलैः कुसुमगुच्छलता । हंसः शरच्छोभा काव्यकथा सजनैः क्रियते गुर्वी ॥ १ अ. प. शक्तः कर्तुं । २ प. ०मनव० । ३ प. ०वाभा० । ४ प. रिंभ० । ५ प. तचारिमाय० । ६ अ. ०दनमः । ७ व. कुसुमेहिं । ८ प. ०एहिं । ९ अ. स्वरू० । १० अ. स्यात् । ११ प. दृद एव, भ. तमेव । १२ प. यथा । १३ प. प्रसादे । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy