SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. अलकारमहोदधौ तत् किमिति ताम्यसि ? व्रज समीहितसिद्धये । अहं ते अश्रूपुरस्तात् सर्व समर्थयिष्ये ' इति सखीवाक्यरूपं वस्तु द्वारस्पर्शव्याजेनेत्यपढत्या व्यज्यते । * " सो सु(मु)द्धसामलंगो धम्मिल्लो कलिअललिअनिदेहो ।। तीए खंधाउ बलं लहिअ सरो सुरयसंगरे जयइ ।। २५१ ॥" अत्र धम्मिल्ला स्मर इति रूपकेण मुहुराकर्षणे तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति स्कन्धपदद्योत्या विशेषोक्तिः। अथ वाक्यप्रकाशस्त्रयोदशभेदस्तत्र शब्दवैचित्र्यप्रस्तावे शब्दशक्तिमूलस्य चत्वारो भेदाः पूर्वस्मिन्नसंलक्ष्यक्रमः पुनरिहैव तरङ्गे प्रतिपादितः । साम्प्रतं त्वर्थशक्तिमूलोऽष्टप्रकारः कथ्यते । तत्र स्वतःसिद्धश्चतुर्भेदः क्रमाद् यथा॥ ॥ अरससिरमणी धुत्ताण अग्गिमो पुत्ति ! धणसमिद्धिमओ । इय भणिए तणुअंगी पप्फुल्लविलोअणा जाया ॥ २५२ ॥" अत्र वस्तुना ममैव भोग्य इति वस्तु ध्वन्यते । + “ "सिहिपिच्छकण्णऊरा जाया वाहस्से नं गठिवरी भमइ । मुत्ताहलरईअपसाहणाण मज्झे सवत्तीण ॥ २५३ ॥" अत्र वस्तुना यदा भवतीष्वासक्तचेताः प्रेयानासीत् तदा तथाविधनिधु * स शुद्ध(मुग्ध)श्थामाङ्गो पम्मिल्लः कलितललितनिनदेहः । तस्याः स्कन्धाद् बलं लब्ध्वा स्मरः सुरतसङ्गरे जयति ॥ ॥ अरसशिरोमणिपूंर्तानामग्रिमः पुत्रि ! धनसमृद्धिमयः । इति भणिते तन्वङ्गी प्रफुल्लविलोचना जाता ॥ + शिखिपिच्छकर्णपूरा जाया व्याधस्य नु गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ।। १ प. शनव्या० । २ प. निय० । ३ अ. ति ध्व० । ४ प. सहि । ५ . ०स्स ग०, प. स्स गविणी। ६ प. ०इय० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy