________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
अलङ्कारमहोदधौ * " तं ताण सिरिसहोअररयणाहरणंमि हिययमेकरसं ।
बिबाहरे पिआणं निवेसिअंकुसुमबाणेण ॥ २४४ ॥" अत्र कुसुमबाणेनेति पदवस्तुना कामस्य मृदूपायसौन्दर्यरूपं वस्तु व्यज्यते ।
“धी(वी)राणं रमइ घुसिणारुणमि न तहा पिआर्थणुच्छंगे ।
दिट्ठी रिउगयकुंभत्थलमि जह बहलसिंदूरे ॥ २४५ ॥" अत्र धीराणमिति पदार्थरूपं वस्तु कुचयोः कुम्भस्थलस्य चोपमालङ्कार ध्वनति । + " चूअंकुरावयंसं छणपसरमहग्घमणहरसुरामोअं।
अपणामि पि गहिरं कुसुमसरेण महुलच्छीए मुहं ॥ २४६ ।। " अत्रापणामिअमसमर्पितमपीति विरोधालङ्कारेण 'मधुमासप्रौढिम्नि भा. विनि कि भविष्यति ?' इत्येवम्भूतं वस्तु द्योत्यते । * " तुह वल्लहस्स गोसंमि आसि अहरो मिलाणकमलदलो।
इय नववहुआ सोऊण कुणइ वयणं महीसमुंह ॥ २४७ ॥" * तत् तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।। धी(वी)राणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सङ्गे ।
दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥ + चूताङ्कुरावतंसं क्षणप्रप्तरमहाघमनोहरसुरामोदम् ।
अनर्पितमपि गृहीतं कुसुमशरेण मधुलक्ष्म्या मुखम् ॥ * तव वल्लभस्य प्रातरासीदधरो म्लानकमलदलः।
इति नववधूः श्रुत्वा करोति वदनं महीसम्मुखम् ॥
१ प.०णेन । २ अ. प. ०राण | ३ प. ०यातणुच्छगे, अ. ०समुच्छंगे । ४ अ. कुंभस्य । ५ ब. भूकं. व. भूकं । ६ प. मोयं । ७ अ. इष । ८ अ. नुह, प.प. तुहं ।
For Private And Personal Use Only