SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । अत्र मत्त-निरहङ्कारशब्दो मेघ-मृगाङ्कयोरसम्भवेन बाधितस्वार्थों स्वेच्छाव्यापारवत्वे व्यापाररहितत्वे च सादृश्ये सति मेघ मृगाकं च लक्षयन्तौ प्रकर्षशालित्वं हतप्रकर्षत्वं च व्यञ्जयतः । अत्रात्यन्ततिरस्कृतवाच्यः । " मुक्ति-मुक्तिकृदेकान्तसमादेशन तत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदोगमः ? ॥ २४१ ॥" मुक्तिरुद्वेगव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः सङ्केतस्थानमपि । सतः सुन्दरस्यागमनम् , शोभनागमश्च । काचित् सङ्केतदायिनं प्रति ससिद्धान्तविषयमर्थ मेवं मुख्यया वृत्या शंसतीति । तेन वस्तुना सदागमपदसहायेन सतः सुन्दरस्यागमनरूपं वस्तु प्रकाश्यते । x “ देव्वायत्तमि फले किं कीरउ इत्ति पुण भणामि । किंकिल्लिपल्लवा पल्लवाण अन्नाणे ण सरिच्छा ॥ २४२ ॥" अत्र नपनिपातपदप्रकाश्यो व्यतिरेकः । असंलक्ष्यक्रमः पदे यथा" मुग्धे ! मुग्धतयैव नेतुमखिलः काल: किमारभ्यते ? मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि ।। सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ २४३ ॥ " अत्र भीताननपदेन भयस्याकृत्रिमत्वप्रकाशनानीचशेसनविधानस्य युक्तता गम्यते । अथार्थशक्तिमूले ध्वनौ स्वतःसिद्धश्चतुर्विधः पदे यथा x देवायत्ते फले किं क्रियतामियत् पुनर्भजामि ।। किकिल्लिपल्लवाः पल्लवानामन्येषां न सदृशाः ॥ १ प. निस्पन्दं, अ. निःष्पंदं व. निष्पन्न । २ प. व. समाग | ३ प. न्तः स्था० । ४ अ. ०ण सा० । ५ ब. शंस वि०, व. शंसने वि० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy