SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ अलङ्कारमहोदधौ गण्यत्वम् , का गणना त्वन्येषाम् ? । अलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिरेकभेद एव गण्यते ॥ अथास्य विषयविभागमाहवाक्य एवोभयोत्थः स्याद् उभयशक्तिमूलो वाक्य एव स्यान्न पदादिषु । यथा" अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा साऽऽनन्दं न करोति कम् १ ॥ २३८ ॥" अत्र चन्द्रः शशी स्वर्ण च । तारका नक्षत्रं कनीनिका च । तरला भासुरा चटुला च । श्यामा रात्रिः कामिनी च । इह चन्द्रादिशब्दाः परावृत्तिं न सहन्त इति शब्दशक्तः प्राधान्यम् । समुद्दीपितमन्मथेति पदं तु सहते इत्यर्थशक्ते प्राधान्यम् इत्युभयशक्तिभूर्वनिता-रजन्योरुपमानोपमेयभावो व्यङ्गया। ___ अन्ये तु पद-वाक्ययोः ॥ ६१ ॥ अन्ये तु पुनत्रयोदश ध्वनयः पदे वाक्ये च सम्भवन्ति । तत्र शब्दशक्तिमूलश्चतुर्दशभेदः पदे यथा " यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा । अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ २३९ ॥" अत्र द्वितीयमित्रादिशब्दैरनुपयोगित्वाद् बाधितस्वाथै राधाराधेयरूपे सम्बन्धे विश्वास्यतां नितरां यन्त्रणीयत्वं स्नेहपात्रतां च क्रमालक्षयद्भिः सर्वरहस्यप्रकाशनस्थानत्वादि निरुच्छासकरणादि सम्पत्सम्पादनादि च क्रमशो ध्वन्यते । अत्रार्थान्तरसान्तवाच्यः । + “ गयणं च मत्तमेहं धाराललिअञ्जणांई अ वणाई । निरहंकारमिअंका हरंति नीलाओ अनिसाओ ॥ २४० ॥" + गगनं च मत्तमेघं धारालुलिताअनानि च वनानि । निरहङ्कारमृगाङ्का हरन्ति नीलाश्च निशाः ॥ म. ०कर० । २ प. •त्युदय० । ३ भ. प. ०तुर्भेदः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy