________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनि निर्णयो नाम तृतीयस्तरङ्गः ।
१०३
बहिरण्यौचित्येन सम्भाव्यमानः । कविप्रौढिनिर्मिर्तस्तु कविना प्रतिभावैभवेन बहिरसन्नपि निर्मितः कविनिबद्ध वेक्त्र (क्तृ) प्रौढिनिर्मितस्तु कविप्रौढिनिर्मितान्नातिरिच्यत इति पृथग् नोक्तः । तावपि स्वतः सिद्ध- कविप्रौढिनिर्मितावपि द्विधा । कस्मात् ? वस्त्वलङ्काररूपत्वात् । स्वतः सिद्धोऽपि वस्तुरूपोऽलङ्काररूपश्च । कविप्रौढिनिर्मितोऽप्येवमेव । तत् तस्मादेषोऽर्थशक्तिमूलश्चतुर्विधश्चतुष्प्रकारः । स च वस्तु वाऽलङ्कारं वा व्यनक्ति । तेनायमर्थशक्तिमूलो ध्वनिरष्टधा । स च पुरस्तादुदाहरिष्यते ।। ५८-५९ ।।
अथोभयशक्तिमूलमाह
एक एव भयोद्भूतस्तद्भेदास्तच्चतुर्दश ॥ ६० ॥
उभयोद्भूतशब्दार्थरूपो भयशक्तिमूलः पुनरेक एव । अत्र हि वस्तुनाऽलङ्कार एव व्यज्यते, न वस्तुमात्रम् । तत् तस्मात् कारणात् तद्भेदास्तस्य व्यङ्ग्यार्थस्य भेदाः शब्दशक्तिमूलत्वादिसङ्कलने चतुर्दश ॥ ६० ॥
ननु रसादीनां भूरिभेदत्वे कथं चतुर्दशेत्याह
एकैव हि रसादीनामगण्यत्वाद् भिदा भवेत् ।
हि यस्मात् कारणाद् रसादीनां रस-भाव- तदाभासादीनामेकैव भिदा भवेदेक एव मेदः स्यात् । कस्मादगण्यत्वात् । तथाहि - नव रसाः । तत्र शृङ्गारस्य द्वौ भेदौ सम्भोगो विप्रलम्भश्च । सम्भोगंस्यापि परस्परदर्शनालिङ्गन - परिचुम्बनादयः कुसुमोच्चय - जलकेलि-सूर्यास्तमय-चन्द्रोदय - ऋतुषट्किवर्णनादयश्च भूयांसो भेदाः । विप्रलम्भस्यापि स्पृहाऽऽदयः प्रोक्ता एव । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् । तत्रापि नायकयोरुत्तम - मध्यमाधम प्रकृतित्वम् । तत्रापि देश - कालावस्थाभेद इत्येकस्यैव रसस्या
१ प. ०तस्तु कविप्रौ० । २ अ. वत्कृतप्रौ० । ३ अ. ०पा० । ४ अ. ०रं व्य० । ५ प ० हियते । ६ अ. व्वभ० । ७ प त्रिभिः कुलकम् । ८ प ०सानां । ९ प ०नचु० । १० अ. व. व्यर्तु० । ११ प. ०ष्ट्व० । १२ व. ० त्वं च |
For Private And Personal Use Only