________________
Shri Mahavir Jain Aradhana Kendra
१०२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कार महोदधौ
नो यावत् परिरभ्य चाटुकशतैराश्वासयामि प्रियां
तस्तावदहं शठेन विधिना निद्रादरिद्रः कृतः ॥ २३७ ॥
"
अत्र विधिं प्रत्यया । रतिरेव कान्ताविषयतां परित्यजन्ती कैश्चित् प्रीतिरित्युच्यते, कान्तासङ्क्रान्ता तु शृङ्गारः ।। ५६ ।।
अथ पूर्वोक्तमुपसंहरन् उत्तरभणितव्यमुपक्रमते — इत्यलक्ष्यक्रमः प्रोक्तो लक्ष्यो लक्ष्यक्रमोऽधुना । शब्दार्थोभयमूलत्वात् स च त्रैविध्यमश्नुते ॥ ५७ ॥
इति प्रागभिहितप्रकारेणालक्ष्यक्रमो व्यङ्गयोऽर्थः प्रतिपादितः । साम्प्रतं लक्ष्यक्रमो लक्ष्यो लक्षणीयः क्रमो व्यञ्जकव्यङ्ग्य स्वरूपो यस्य स तथा लक्ष्यो लक्षयितव्यः । स च लक्ष्यक्रमस्त्रैविध्यं त्रिविधत्वमनुते व्याप्नोति । कस्मात् १ शब्दार्थो भय मूलत्वात् शब्दशक्तिमूलत्वादेर्थशक्तिमूलत्वादुभयशक्तिमूलत्वाच्च ।। तत्र शब्दार्थशक्तिमूलयोः स्वरूपमाह -
चतुर्द्धा शब्दवैचित्र्ये शब्द भूरुदितः पुरा । अर्थमूले पुनर्व्यव्यञ्जकोऽर्थः स्मृतो द्विधा ॥ ५८ ॥ स्वतः सिद्धः कविप्रौढिनिर्मितस्तावपि द्विधा । वस्त्वलङ्काररूपत्वात् तदेष स्याच्चतुर्विधः ॥ ५९ ॥ व्यक्ति वस्त्वलङ्कारौ स च तेनायमष्टधा ।
शब्दवैचित्र्ये शब्दवैचित्र्यकथनप्रस्तावे शब्दभूः शब्दशक्तिर्मूलो व्यङ्गयो - वर्धाः चतुष्प्रकारः पुरा पूर्वं प्रतिपादितः । सम्प्रत्यर्थशक्तिमूलो वाच्यस्तस्मिन् पुनरर्थशक्तिमूले व्यङ्गये व्यञ्जकोऽर्थो द्विधा द्विविधः स्मृतः । स्वतःसिद्धः कविप्रौढिनिर्मितश्च । तत्र स्वतः सिद्धो न केवलं भणितिमात्र निष्पन्नो
१ अत० । २ प ०तं लक्ष्यो ल० १ ३ अ. ० मो व्य० । ४ अ. ०त् च तत्राश० । ५ प. ०त्वादुभ० । ६ प ०र्थमू० । ७ अ ०पकत्वात् । अ. लो वाच्यस्तस्मिन् पुनरर्थशक्तिमूलो व्य० । ९ व. ०तुर्विधः ।
For Private And Personal Use Only