SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० अलङ्कारमहोदधौ अत्रौत्सुक्यस्य । शान्तिर्यथा" दृष्टे लोचनवन्मनाग मुकुलितं पार्थे स्थिते वक्त्रवत् न्यग्भूतं बहिराशितं पुलकवत् स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ।। २३१ ॥" अत्र ही-रोषयोः । सन्धिर्यथा" श्रुत्वा दाशरथी सुवेलकटके साटोपमर्दु धनु___ष्टकारैः परिपूरयन्ति ककुभः प्रोच्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत् पुन वैदेहीकुचपत्रवल्लिरचनाचातुर्यमद्धे कराः ।। २३२॥" अत्रावेगावहित्थयो। शबलता यथा"काकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो ! कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥२३३॥" अत्र वितर्कीत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानाम् ॥५४॥ ननु सर्वत्र रसानामेव मुख्यत्वम्, तत् किं भाव-स्थित्यादयोऽत्र मुख्यत. याऽभिहिता इत्याह यद्यपि ध्रुवमेतेषां रसाङ्गत्वं तथापि ते। स्पृशन्ति क्वचिदङ्गित्वमङ्गभावं रसाः पुनः ॥ ५५ ॥ १ अ, वस्थि० । २ प. प्रेच्छेति । ३ प. शिशुल० । ४ व. न्याध० । ५५. व्यो मु०। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy