SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनि निर्णयो नाम तृतीयस्तरङ्गः । विप्रलम्भाभासो यथा -- " वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः । सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः || २२८ ॥ " भावाभासो यथा -- " गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ।। २२९ ।। " अत्र ग्लानिः । इदं च तिर्यगादिगतमाभासत्वं शृङ्गारविषयमेव, नान्यरसविषयम्, ' ग्रीवाभङ्गाभिरामम्' इत्यादावप्याभासत्वप्रसङ्गात् ।। ५३ ।। अथ व्यभिचारिभावानामवस्था विशेषानाह स्थितिस्तथोदयः शान्तिः सन्धिः शबलता तथा । इत्येताः सर्वभावानामवस्थाः पञ्च कीर्तिताः ॥ ५४ ॥ इत्येताः स्थित्युदय - शान्ति - सन्धि - शबलता लक्षणाः सर्वव्यभिचारिमा - चानां पश्वसङ्ख्या दशाः सूरिभिः प्रकीर्तिताः । तत्र स्थितिर्यथा— ' तिष्ठेत् कोपवशात् प्रभावपिहित -' इत्यादि । अत्र वितर्कस्य । उदयो यथा ९९ 44 एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात् मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनवक्षितः || २३० ॥ " १ व. ०भिजीर्ण, प. •पत्रैः । २ अ ०रादिवि० । ३ व. ०न्यवि० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy