________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भलकारमहोदधौ " आपृष्टासि व्यथयति मनो दुर्बला वासरश्री
रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि !। नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवायत्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥ २२२ ॥"
भावामासो यथा" त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये ।।
वनं प्रयात्यसौ वीडाजंडदृष्टिर्मगीजनः ।। २२३ ॥" अत्र ब्रीडा ।
आदिशब्दानिशा-शशिनोः सम्भोगाभासो यथा" अङ्गुलीभिरिव केशसञ्चयं सनिगृह्य तिमिरं मरीचिमिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ २२४ ॥"
दिवस-सन्ध्ययोर्विप्रलम्भाभासो यथा" अनुरागवती सन्ध्या दिवसस्तत्पुरस्सर ।
अहो ! दैवगतिश्चित्रा तथापि न समागमः ॥ २२५ ॥" हीनजातिषु मनुष्येष्वपि केऽपि रसाद्याभासं मन्यन्ते । यथा* “ विकिणइ माहमासंमि पामरो बोरयं बहल्लेण ।
निधूममुंम्मुरे सामलीएं थणए निअच्छंतो ।। २२६ ॥"
____ अथेन्द्रियवर्जितेषु सम्भोगाभासो यथा" पर्याप्तंपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ २२७॥" * विक्रीणाति माघमासे पामरो बदरं बलीवर्दैन । निर्धूममुर्मुरौ श्यामायाः स्तनौ पश्यन् ॥
१. क्षिप० । २ व. ०जलदृष्टिम० । ३ . •मुम्मरे | ४ व. ०लऐ । ५ प. स्तपु० ।
For Private And Personal Use Only