________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलकारमहोदधौ उद्भः भ्रान्तमपाङ्गवृत्ति विकचं मन्जत् तरङ्गोत्तरं
- चक्षुः साश्रु च वर्तते रसवसादेकैकमन्यक्रियम् ॥ २१६ ॥" अत्र रावणनेत्रविंशतिस्वभावोक्तिर्निहिताऽपि रसाङ्गत्वेन न योजिता ।
तथाऽङ्गत्वेऽपि समये काले आइतैर्गृहीतैर्यथा" उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भा क्षणा
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमा समदनां नारीमिवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥ २१७ ।।" अत्रोपमा तदनुग्राहकश्च श्लेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्षणाभिमुख्यं कुर्वन्तौ समये रसस्यारम्भदशायां निबद्धत्वादुपकारिणौ ।
आहतैरप्यवसरे त्यक्तैर्यथा" रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे ! मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्व तुल्यमशोक ! केवलमह धात्रा सशोकः कृतः ॥ २१८ ।। " अत्र प्रबन्धप्रवृत्तोऽपि श्लेषानुगृहीतोपमालङ्कारो व्यतिरेकविवक्षया त्यज्यमानो रसोपकारी ॥ ५२ ॥
अथ रसाभास-भावाभासानाहआभासा रस-भावानामनौचित्यप्रवर्तनात् ।
- १ व. ०मानात्तदहेतुमा० । २ प. त्यथै०, व. ०त्युक्त० । ३ व. सखे ना० । ४ अ. भावाभा०।
For Private And Personal Use Only