________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ अत्र योषिति रोपाख्यभावान्तरतिरस्कारात् पुरुषे चान्यानुरक्तवाद रतिप्रकर्षस्य हासोऽवसीयते ॥ ५१ ।।
अथालङ्कारकृतं रसोपकारमाह - तत्परैर्नातिनियूटेनिर्वाहेऽप्यङ्गतां गतः। समये चाहतत्यक्तैरलङ्कारैः स चीयते ॥ ५२ ॥ स इति रसोऽलङ्कारैरनुप्रासोपमायैश्चीयते काममुपचेयं याति । कीदृशैस्तस्परैस्तत्परत्वेन रसोपकारकत्वेन निवेशितैर्न बाधकत्वेन नापि ताटस्थ्येन । यथा"चलापानां दृष्टिं स्पृशसि बहुशो वेपथुमती
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तवान्वेषान्मधुकर ! हतास्त्वं तु सुकृती ॥ २१० ॥" अत्र अमरस्वभावोक्तिरलङ्कारो रसापकारकत्वेन निबद्धो रसतत्परः ।
बाधकत्वेन यथा" स्रस्तः स्रग्दामशोमा त्यजति विरचितामाकुलः केशपाशः
दीवाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तैः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥ २११॥" अत्र पीडयेवेत्युत्प्रेक्षाऽलङ्कारस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विमा. वानुभावानाविष्कुर्वन् बाधकत्वेन भाति ।
ताटस्थ्येन यथा" लीलावधृतपमा प्रथयन्ती पक्षपातमधिकं नः।
मानसमुपैति केयं चित्रगता राजहंसीव ॥ २१२ ॥" १ प. द्रतिरति० । २ प. ०यंतियांति । ३ व. तस्वोन्मेषा० । ४ व. च सु०, खलु कृ० । ५५. व्यक्तः । ६ व. मुपेत्य ।
For Private And Personal Use Only