________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । णाशलक्षणां प्रेम्णोऽष्टमीमवस्था प्रकाशयन् रसं पुष्णाति । अत्र चानुक्ता अप्यन्येऽनुभाव-व्यभिचारिणः प्रतीयन्ते । श्रियोऽपि समग्रगुणाश्रये विष्णौ तथाभूतां तदभ्यधिको वा रतिमुद्दीपयन् प्रियाऽऽलिङ्गन-नयननिमीलनाद्यनुभा. वाश्च परां रसपुष्टिं जनयन्ति ।
अथ सङ्करःस्थायिनो भावस्य रसत्वं प्रतिपद्यमानस्य रसभावमाश्रयद्भिर्भावान्तरैः संसर्गः सङ्करः । यथा" राहोश्चन्द्रकलामिवाननचरी दैवात् समासाद्य मे
दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् । आतङ्काद् विकलं द्रुतं करुणया विक्षोमितं विस्मयात्
कोपेन ज्वलितं मुदा विकसितं चेतः कथं वर्त्तते ॥ २०८ ॥" अत्र माधवस्य मालत्या पूर्वमुन्मीलिता रतिस्तद्दीनदशाविलोकनादिभिरुदीपनविभावैरुद्दीप्यमाना मनो-बाग-बुद्धि-शरीरानुभावैरलता परां रसकाष्ठामारोहन्ती भय-शोक - विस्मय-क्रोध-हर्भावान्तरैः पृथक् पृथग विभावानुभाव-व्यभिचारिसंयोगादुत्कर्षमाश्रयद्भिः सङ्कीर्यमाणा विशेषातिशायिनी प्रतीयते । अत्र च चेतसो वैकल्यादिविभावनं मनोऽनुभावः । वाक्योच्चारणं वागनुभावः । राहोरिव दस्योश्चन्द्रकलामिव प्रेयसीमित्यादिर्बुद्ध्यनुभावः । आच्छिन्दत इत्यादिः शरीरानुभावः ।
अथ शास:रसप्रकर्षस्यापगमो ह्रासः । यथा"कोपो यत्र भ्रकुटिघटना निग्रहो यत्र मौन ___यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ २०९ ।।" १५. ०शाव० । २ प. कीर्ण० ।
For Private And Personal Use Only