________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलङ्कारमहोदधौ - विद्या-बल-कुलैश्चर्य-वयो-रूप-धनादिभिः कृतोन्नतिः परावज्ञा गर्वः । स चाख्याऽमर्पोपहासाधिक्षेपादीनि प्रसूते । यथा"धृतायुधो यावदेहं तावदन्यैः किमायुधैः १ । यद्वा न सिद्धमत्रेण मम तत् केन सेत्स्यति ? ॥ १९९ ॥"
अर्थतेषामुपसंहारमाहत्रयस्त्रिंशदमी भावा यथावदिह लक्षिताः ॥ ५० ॥
अमी कथितस्वरूपास्त्रयस्त्रिंशत्सङ्ख्या व्यभिचारिणो भावा यथावत् पूर्वाचार्यानतिक्रमेणास्मिन् शास्त्रे लक्षिताः कृतलक्षणव्यक्तयः ॥ ५० ॥
अथ विभावानुभाव-व्यभिचारिणां रसस्य कार्य-कारणसहकारिभूतानां स्वरूपमभिधाय तस्यैव प्रक्रियाविशेषानाह
भावो जन्मानुबन्धोऽथ निष्पत्तिः पुष्टि-सङ्करौ । झासश्चेति बुधैः सप्त रसस्य प्रक्रियाः स्मृताः ॥५१॥ इत्यमुना प्रकारेण रसस्य भावादिरूपतया सप्त प्रक्रियाः प्रपश्चाः स्मृताः कषिता बुधैः पूर्वपरिभिः । तत्र सात्त्विकाद्यनुभावान् विना कुतश्चिनिमित्तमाश्रीत् लोचनव्यापारणादे रत्यादिभावानामुन्मीलनानुमानेऽपि परिस्फुटत्वाभावाद् भावरूपतामत्यजन्तो रसा एव भावा इत्यभिधीयन्ते । यथा" हरस्तु किश्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ २०॥" अत्र लोचनव्यापारेण गिरिशस्य रतिमात्रोन्मीलनानुमानेऽपि शृङ्गारस्य मावस्वमेव ।
अथ जन्म
१. परासूया। २ प. करोति । ३ प. ०दयं । ४ व. ५० थैषा० । ५५. ०था तत् | ६५. ०४०। ७, स्य रू०।८ अ.व. वात्र ०। ९. तथा । १० प. रहा।
For Private And Personal Use Only